Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 26
________________ September-2003 रहस्यं प्रोक्तुकामस्य प्रमाणस्योपदर्शनम् । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥४॥ तदित (द) मा: किमेतत् ? अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्को रहस्यज्ञानं प्रमाणमिति । प्रमाणेन चरन्ति प्रामाणिकाः तेषाम् । श्रीमुनीश्वरसूरीन्द्रै- दत्तस्तार्किकपर्षदि । मुनिहर्षमुनेरेष हस्तबाणः प्रमाणतः ||५|| ननु प्रामाणिकानां चतस्रो विप्रतिपत्तयो भवन्ति प्रमाणस्य स्वरूप (प) १, सङ्ख्या २, फल ३, विषय ४ लक्षणाः । 21 तत्र 'प्रमाणस्य स्वरूप' मिति | आदितोऽत्र 'साकांक्षं वचनं प्रमाणम् । न, तद्विप्रमिणोतीति प्रमाता । आत्मा वा प्रमाणम् ! न, साधकत्वात् कर्तृत्वाच्च । प्रमीयते योऽर्थः प्रमेयं वा प्रमाणम् । न, साध्यत्वाद्, अस्य कर्मपदत्वाच्च । प्रमातीति प्रमा सम्यगनुभव एव वा प्रमाणम् । न, प्रमा- प्रमाणयोर्महान् भेदः। प्रमायाः कार्यरूपत्वात् तावत्करणस्य कारणरूपत्वादिति । अथ 'घटमहमात्मना वेद्मी'ति - 'अह' मित्यात्मा ज्ञाता कर्ता १, 'घट' मिति ज्ञेयं कर्म २, 'वेद्मी'ति फलं क्रिया ३, केन ? 'आत्मना ' - ज्ञानेन ४, करण व्युत्पत्तेश्च कर्तृकर्मविलक्षणत्वाद् वेदितव्य ( व्यं) प्रमाणम् । प्रमातुः साधकत्वेन प्रमेयस्य साध्यतः । प्रमायाः फलरूपत्वात् साधनं त्वन्यदेव हि ॥१॥ प्रमीयते - परिच्छिद्यते संशयादिव्युदासेन वस्तुतत्त्वार्थोऽनेनेति प्रमाणमिति मुष्टिः । अथ किम् ? । अव्यभिचारि प्रमाणं सम्यग्ज्ञानमिति यावत् । अपीदमेवं, परं व्यभिचारादन्यत्र । स तु संशयादिभ्य एव प्रादुःष्याद्, अतस्तया (स्ते आ) विष्कृत्याऽनभ्यासमित्याः । यथा तत्र उभयकोट्यवलम्बी संशयः । यथा कश्चिद् विपश्चित् कुतश्चिदन्धतमसे परितः प्रसर्पति प्रान्तरे शिरः पाण्यादिलक्षणं क्षणं स्थाणुमालोक्य सन्देग्धि'किं स्थाणुरयं' ? एका कोटि:, 'आहोश्वित् पुरुषो वा ? ', द्वितीया कोटिः । अनिश्चितज्ञानमिति यावत् । तत्र अनिश्चितैककोट्यवलम्बी ह्यनध्यवसायः । -पुन्नागनागवनराजिनिकुञ्जे 'किंसंज्ञको वृक्ष' इत्येका कोटिरेव । 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116