Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 33
________________ 28 अनुसंधान-२५ वासनां दत्वा अलक्तद्रवभावितबीजे कर्पासे रक्तता यथा, दग्धे 'रामठे परिमलो यथा । तथा चामनन्ति-अपर एवात्मा अवतातरीति । तथा सति प्राक्कृतोपभोगोऽपरस्य कथंकारं प्राग्भवे स्मारं स्मारं दत्तमादत्ते कथमिति । येनाऽनित्यात्मना सुकृतं कृतं स तावच्चौरंकारं पलायितः । परकृतं कोऽयमपरः सम्बन्धविनाकृतो लभते ? । यः सापराधः स एव दण्ड्यो अत्र न तु माछ्यो (त्स्यो) न्यायः ॥ क्षणान्तरोत्पन्न आत्मा स्वकृतमेवोपभुङ्क्ते, न तु परकृतम् । अथ यत्तु(त्त)दस्तु नाम । अनित्यात्मगता सा वा वा(वासना)ऽऽत्मनो भिन्नाऽभिन्ना वा ? । भिन्ना चेत् कथं तस्येति सा ? । अभिन्ना चेत्, सा नित्याऽनित्या वा ? । नित्या चेत् स्वपदे कुठारप्रहारः । प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । अनित्या चेत्, सा कौतस्कुती सहैवाऽत्मना वराकी काकीव करतालीभिस्त्रासितैव ।। अथ क्षणिकात्मा सान्वयं निरन्वयं वा विनश्यति ? । सान्वयं चेत्, तर्हि समूलकाषंकषित एव । द्वारिकादाहे सन्देसा(शा)र्पकसन्देहवत् तत्र[न] कोऽपि क्षणान्तरभावी । सोऽयं ताथागतधर्मकीर्तेः पन्था दुस्तरः । का गतिस्तावदस्य ? । अथ क्षणिकात्मा निरन्वयं विनश्यति । अन्वयरूपां वासनां दत्वा क्षणान्तरभावी भवति चेत् । ननु धर्मोत्तरवादिस्तव सन्धासम्बन्धाभिसन्धिरिति ।। यत् किलात्मा क्षणविनाशी । अन्वयरूपा वासना तिष्ठति । सा वासनापरम्परां प्रवर्तयतीति नूनं नित्यानित्यगुण गणोपभोगभाक् स एवात्मा। अन्धभुजङ्गरन्ध्रेमिव । यथाऽन्धो भुजङ्गो यत्र तत्र भ्रान्त्वा सरलस्वरन्ध्रमेव विशति । परैः पक्षान्तरे२७ जिनमतमेवाऽऽश्रितम् || मनस्ते कुत्रचिद् यातु वपुस्ते वर्तते नवा । यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥इति।। सौगत- वृषष्यन्ती प्रतिवादिषिङ्गवाग्भिरपि प्रस्तुतार्थः समर्थितः स्यादेव ॥ किञ्च - सत्त्वस्याऽनन्तधर्मात्मकत्वं भूयः प्रतिजानीते जैनः । नन्वेकान्तनित्यानित्यस्य क्रमाऽक्रमाभ्यां ह्यर्थक्रियाकारित्वं न घटते । एकान्तनित्यानित्यो भावः क्रमेणार्थक्रियां कुर्यादक्रमेण वा ? । क्रमो हि पौर्वापर्यम् । पाकक्रियायामधिश्रयणादिका क्रिया पूर्वभागः । निष्पन्नमित्यपरभागः । तत्रैकान्तनित्यस्य पूर्वापरभागौ न घटेते । अवस्थाभेदतोऽनित्यताप्रसक्तेरिति । १. हिङ्गु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116