Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
31
अपि च- स्याद्वादः प्रमाणस्वरूपं । स्यादित्यव्ययं अनेकान्तद्योतकम् । स्याता उपलक्षितः सदसन्नित्यानित्याभिलाप्यानभिलाप्यो वादः स्याद्वादः । तत्रेयं सप्तभङ्गी
'स्यादस्त्येव सर्व' मिति विधिकल्पनया प्रथमो भङ्गः १ । स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः २ । स्यादस्त्येव स्यानास्त्येव क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः ३ । स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थो भङ्गः ४ । स्यादस्त्येव स्यादवक्तव्यं निषेध (विधि)कल्पनया युगपद्विधिनिषेधकल्पनया पञ्चमो भङ्गः ५ । स्यानास्त्येव स्यादवक्तव्यं निषेधकल्पनया युगपद्विधिनिषेधकल्पनया षष्टो भङ्गः ६ । स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यं क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया सप्तमो भङ्गः ७॥
या प्रश्नाद् विधिपर्युदासभिदया बोधच्युता सप्तधा धर्मं धर्ममपेक्षवाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेसि(शि) देव ! भवता सा सप्तभङ्गी यया
जल्पन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् ॥ ग्रन्थगौरवभयादवैतावदुक्तम् । विस्तरतः स्याद्वादरत्नाकरादवसेयम् ॥ इति प्रमाणसारे प्रमाणस्वरूपप्ररूपकः स्वोपज्ञः प्रथमादर्शः ॥१०
(२) अथ प्रमाणस्वरूपविप्रतिपत्तिहेतुं प्रदर्श्य प्रमाणसङ्ख्याप्रतिपत्तिमुसन्ति४२ । अथाऽनेकान्तमतप्रामाण्यमभ्युपगम्य जितकासी प्रत्युत प्रत्यवस्थानपुरःसरं परवादिनं प्रतिवादी जैनः प्रतिजानीते ।।
ननु भो वादिन् ! प्रश्न:४३ क्रियताम् । परः- "कियन्ति प्रमाणानि' ? ।
इत्युक्ते जैनः - जिज्ञासाऽऽविष्करणं प्रश्न इति । ज्ञातुमिच्छा जिज्ञासा । अत्र ज्ञाते सति पृच्छा, अज्ञाते वा ? । सुनिश्चिताशेषपदार्थपरमार्थस्य किमर्थं पृच्छा ? । अज्ञाते वा क:४४ कृती कर्ममर्मविनाकृतेन वृथाप्रलापिना सम्यग् वाग्जन्मवैफल्यं नाटयति ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116