Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
29
तावेकान्ताऽनित्यस्यापि न युज्येयाताम् । पूर्वभागोऽपरभागं यावत् क्षणक्षयी न प्रतीक्षते, मंक्षु क्षीयते च । युगपदुभयोरपि न सिद्धिरिति तात्पर्यार्थः ॥
अनन्तधर्मात्मकत्वमिति स्याद्वादलक्षणम् । 'सदेव२९ स' दुन्नी (नी) तिवाक्यम् १ । 'स्यात् सत्' नय(?)वाक्यम् २ । 'सदिति घटः' प्रमाण(?)वाक्यम् ३ । “घटोऽस्तीति न वक्तव्यम् । सन्नेव हि घटो यतः ॥" सत्तायामपि सत्तायोगेऽनवस्था । "नास्तीत्यपि न वक्तव्यं, विरोधात् सदसत्त्वयोः" ॥ प्रत्यक्षविरोधः ।
"सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥२॥ एकस्मिन् भावे सत्त्वमसत्त्वं च विरोधः ।
परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तमात्रविरोधिनी ॥३॥ विरोधे चाऽविरोधे च प्रमाणं कारणं मतम् ।
प्रतीयते चेदुभयं विरोध: कोऽयमुच्यते ? ||४||
नीलोत्पले द्वयं यथा । नरसिंह इति । भागे सिंहो नरो भागे । द्वयस्यैकार्थकारित्वान्न विरोधः । अथ
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥ तथा मेचकवस्तुष्वपि द्वयं न विरुद्धं, सत्प्रमाणप्रसिद्धेरिति ।
एकान्तनित्यो भावः कथं कार्यकारणतामश्नुते ? । एका कारणावस्था, अपरा कार्यावस्था । कारणं त्रेधा-समवाय(यि)कारणं १, असमायिकारणं २, निमित्तकारणं ३ चेति । प्राप्तानां प्राप्तिः समवायः । यथा घटे रक्तत्वादिरूपसमवायः। अप्राप्तानां प्राप्तिः संयोगः । यथा-इह कुण्डे बदराणि। तत्र समवायिकारणं घटोत्पत्तौ मृदादि, पटोत्पत्तौ तन्तवः । असमैवायिकारणं सूत्रखण्डदण्डचक्रचीवरादि, पटोत्पत्तौ तुरीवेमादि । निमित्तकारणं कुलालादि, पटे कुविन्द इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116