Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ 34 संयमविशुद्धेरुत्पन्नं मनोद्रव्यपर्यायालम्बनं मन:पर्ययज्ञानम् । सकलं तु द्रव्यक्षेत्रकालभावसामग्र्या क्षपक श्रेण्युपशम श्रेणिभ्यां च क्षीणमोहगुणस्थानोदये ज्ञानावरणीय दर्शनावरणीया - ऽन्तराय - मोहनीय- अशाता वेदनीयकर्मप्रकृतिषु समूलकाषंकषितासु आयुर्नामगोत्रसातावेदनीयकर्मप्रकृतिषु दग्धरज्जुप्रायासु ५५ सतीषु करकलितामलकीफलवत् समस्तवस्तुपर्यायसाक्षात्कार स्वरूपं केवलज्ञानम् ॥ अत्र पुरुषविशेषप्रकृतयः । अधमाधमः १, अधम: २, विमध्यमः ३, मध्यमः ४, उत्तम: ५, उत्तमोत्तमः ६, इत्येतादृग्विधविष्वद्यङ्मतिविविधबुधसविशेषपुरुषविशेषस्य निःशेषिताशेषदोषस्य हि केवलित्वम् । आत्मनः केवलावस्थानमिति यावत् । तथा सति कृतज्ञानावरणविवरतिमिर व्यतिकरपरिक्षये सार्वज्ञमेव । ननु पुरुषसेमुखी (शेमुषी) तारतम्ययोगतो ज्ञानतारतम्यं क्वचिद्विश्रान्तमेव ॥ अत्र ताथागतः प्रत्यवतिष्ठते । सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥१॥ अत्र सर्वदर्शित्वे सर्वज्ञत्वे च तात्पर्यं हि सर्वगतपरिज्ञानाभावादन्वय व्यतिरेकाभ्यां हेयापादेयस्वरूपप्ररूपणमसङ्गतं वनीवच्यते ॥ तद्वानर्हन्निर्दोषत्वा [त्], निर्दोषोऽयं प्रमाणाऽविरोधिवाक्यात् । ररूपम् । अनुसंधान-२५ इति विशेषार्थः ॥ रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? ॥ न च कवलाहारेण सार्व्वज्ञं हीयते । ज्ञानं आधेयभूतं, शरीरमाधा देहो हि पुग्गलमओ आहाराईहिं विरहिओ न भवे । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ इत्याप्तोक्तेः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116