Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२५ सत्त्वरजस्तमंसां साम्यावस्था प्रकृतिः ॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ अव्यक्तमेकम् । महदहंकारपञ्चतन्मात्राणि (?) त्रयोविंशतिविधं व्यक्तम् । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नाऽत्र संशयः ।। एषामाविर्भावतिरोभावौ कारणम् ।
नित्यः शब्दोऽकृतकत्वाद् आकाशवत् । यद्यदकृतकं तन्नित्यं यथा संप्रतिपन्नम् । शब्दो हि ताल्वोष्ठपुटादिव्यापारैः सत्कारण एवाविर्भाव्यते, न तूत्पाद्यते । यथाऽपवरकान्तः सन्तमसे तिरोभूतः पदार्थसार्थः प्रदीपप्रकाशेन प्रादुःक्रियते, न तु जन्यते । यतोऽविद्यमानस्य वाजिविषाणस्याऽनुत्पत्तिरेव । न षष्टस्य भूतस्याऽसद्रूपस्यैवाविर्भावः । भावानां विपत्तिस्तु कारणाभावात्तिरोभाव एव । भावाः सामग्रीसद्भावे प्रादुर्भवन्ति, आविर्भावाभावात् तिरोभवन्ति । कारणवादिनोऽमी । कार्यं हि कारणस्य रूपमन्यथा वा ? । कारणं स्थिरैकरूपं चेद् विश्वं नित्यमेव । प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रकृतिवियोगो मोक्षः । प्रकृतिस्वरूपाया विराम एव प्रकृतेः । प्रकृतिः करोति प्रकृतिश्च भुङ्क्ते । आत्मा दर्पणवत् प्रतिबिम्बमात्रफलं लभते ॥
वैशेषिकैस्तु द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाः ६ षट् पदार्थास्तत्त्वतयाऽभिप्रेताः । अर्थो पलब्धिहेतु प्रमाणम् । प्रत्यक्षानुमानागमोपमानानि चत्वारि प्रमाणानि । तत्रोपमानं - यादृग् गौस्तादृग गवयः ।
कीदृग् गवय इत्येवं पृष्टो नागरिकैर्यदा । वदत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥१॥
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवाऽऽत्मगुणाः । सुखादिगुणसन्तानोच्छेदे मोक्षः । आत्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् । यो य: सन्तानः स सोऽत्यन्तमुच्छिद्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116