SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२५ सत्त्वरजस्तमंसां साम्यावस्था प्रकृतिः ॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ अव्यक्तमेकम् । महदहंकारपञ्चतन्मात्राणि (?) त्रयोविंशतिविधं व्यक्तम् । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नाऽत्र संशयः ।। एषामाविर्भावतिरोभावौ कारणम् । नित्यः शब्दोऽकृतकत्वाद् आकाशवत् । यद्यदकृतकं तन्नित्यं यथा संप्रतिपन्नम् । शब्दो हि ताल्वोष्ठपुटादिव्यापारैः सत्कारण एवाविर्भाव्यते, न तूत्पाद्यते । यथाऽपवरकान्तः सन्तमसे तिरोभूतः पदार्थसार्थः प्रदीपप्रकाशेन प्रादुःक्रियते, न तु जन्यते । यतोऽविद्यमानस्य वाजिविषाणस्याऽनुत्पत्तिरेव । न षष्टस्य भूतस्याऽसद्रूपस्यैवाविर्भावः । भावानां विपत्तिस्तु कारणाभावात्तिरोभाव एव । भावाः सामग्रीसद्भावे प्रादुर्भवन्ति, आविर्भावाभावात् तिरोभवन्ति । कारणवादिनोऽमी । कार्यं हि कारणस्य रूपमन्यथा वा ? । कारणं स्थिरैकरूपं चेद् विश्वं नित्यमेव । प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रकृतिवियोगो मोक्षः । प्रकृतिस्वरूपाया विराम एव प्रकृतेः । प्रकृतिः करोति प्रकृतिश्च भुङ्क्ते । आत्मा दर्पणवत् प्रतिबिम्बमात्रफलं लभते ॥ वैशेषिकैस्तु द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाः ६ षट् पदार्थास्तत्त्वतयाऽभिप्रेताः । अर्थो पलब्धिहेतु प्रमाणम् । प्रत्यक्षानुमानागमोपमानानि चत्वारि प्रमाणानि । तत्रोपमानं - यादृग् गौस्तादृग गवयः । कीदृग् गवय इत्येवं पृष्टो नागरिकैर्यदा । वदत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥१॥ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवाऽऽत्मगुणाः । सुखादिगुणसन्तानोच्छेदे मोक्षः । आत्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् । यो य: सन्तानः स सोऽत्यन्तमुच्छिद्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy