________________
September-2003
39
अथ बौद्धाः एकान्तानित्यवादिनः । अनधिगतार्थाधिगन्तृप्रमाणवादिनस्ताथागता यौगाः शून्यवादिनः ज्ञानाद्वैतवादिनश्च ।
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥ इत एकनवते कल्पे शक्त्या में पुरुषो हतः । तस्य कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥२॥ यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यदेतत् स्वयमर्थेभ्यो रोचते तत्र के वयम् ? ॥३॥
प्रपञ्चोऽयं मिथ्या प्रतीयमानत्वात् मृगतृष्णाम्बुवत् । क्षणक्षयित्वाद्धि कार्यापोह एव न तत्कारणम् । आलक्तकद्रवभाविते कर्पासे रक्तता यथा । दग्धे रामठे परिमलो वा । क्षयस्वभावाः क्षणाः प्रतिक्षणं क्षीयमाणा निरन्वयविनाशिनः क्षीयन्ते । परमन्वयरूपा वासना तिष्ठति । तयैव व्यवहारः स्यात् । अपि च - गोत्वसामान्यं अर्थक्रियाकारित्वाभावाद् व्यर्थं, किन्तु व्यवहारिणो विशेषा एव । इयं कृष्णा गौर्दोहनक्षमेति विशेषार्थता । प्रमाणद्वयंप्रत्यक्षमनुमानं च ।
धर्मकीर्तेरमी शिष्या भगवद्वेषधारिणः । माने पद्मे जपन्त्यङ्गं पात्रप्राप्तमदन्ति च ॥१॥ तत्र सांख्याः कापिला एकान्तनित्यवादिनोऽमी । सांख्या निरीश्वराः केचित् केचिदीश्वरवादिनः । सत्कर्मवादिनः केऽपि केचित् कर्तृत्ववादिनः ॥ असदका(क)रणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्याकरणात्कारणा(ण) भावाच्च सत्कार्यम् ।। अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । [सौम्यायवधानादभिभवात् समानाभिहाराच्च ।] सौख्या(म्या)त् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः । महदादि तच्च कार्यं प्रकृतिस्व(स)रूपं विरूपं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org