Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
23
September-2003 प्रमाणं-इति द्वैतापत्तिः । अप्रमाणसिद्धं चेत्, असिद्धमसिद्धेन साध्यते । इति चेद्, अस्तु, किं सिद्ध्यै ब्रूमः?। १३कणेहत्य वैयात्यतः परास्त्रैर्युयुत्सुरिति प्रमाणसत्तावादिनं प्रति खण्डनवादी प्रत्यवतिष्ठते । तर्हि
लोकद्वैतं फलद्वैतं कर्मद्वैतं विरुध्यते । गुरुशिष्यत्वमेवेति बन्धमोक्षद्वयं तथा ॥१॥
तदिदं विष्टपं द्विष्ठमिष्टं कथमद्वैतं सङ्गतिमङ्गति ? । मध्येसभं यत् प्रोच्यमानं हि नौचितीमञ्चति ॥
__ प्रत्यक्षैकप्रमाणवादिनोऽसद्दर्शिनश्चार्वाका अपि प्रमाणं न प्रमाणयन्ति, निगदन्ति च-यश्च परलोकात्मसर्वज्ञमोक्षाभावः प्रत्यक्षपथातिक्रान्तत्वाद् वाजिविषाणवत् । अनुमानागमौ सर्वज्ञाभावान प्रमाणम् । नास्त्यात्मा । संयोगचैतन्यमात्रमेव । धातुकीकुड्मलगुडाम्भःसंयोगादुन्माद इव प्रादुर्बोभवीति ।
यत्किञ्चिदेतत् पलालपूलप्रायम् । तदुदर्कतोऽनेडकमूका ब्रूयुर्नाम, का नो हानिः ? ।
संयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुच्चलत्पावकतापिताम्भःस्थाल्यामनेकान्तमिहास्तु तस्य ॥१॥ सुखादि चैत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ 'इदं सुख'मिति ज्ञानं दृश्यते न घटादिवत् । 'अहं सुखी' ति तु ज्ञप्ति- रात्मनोऽपि प्रकाशिका ॥
इत्येवं गणशो वाचोयुक्तीनां वचोयुक्तिभिरात्मनि सिद्धे भवमोक्षौ सिद्धावेव ॥
दर्शनं तदागमः । तन्निदर्शादर्शदर्शनिनः स्वव्यवस्थाया अवस्थिताः षट्। जैन नैयायिक २ वैशेषिक ३ साङ्ख्य ४ सौगत ५ मीमांसका ६ इति । एतैस्तु प्रमाणसत्ताकोटिकुटीरमटाट्यते । एतावता प्रमाणं प्रामाण्य सिद्ध(द्धि)सौधमध्यमध्यासीनम् । सिद्धं नः समीहितम् । जितं जितं वाद्यतां मित्र ! झल्लरी ।
अलमलं गल्लझल्लरीझात्कारेण । किं बंहीयान् अनेहा नीरसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116