SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 23 September-2003 प्रमाणं-इति द्वैतापत्तिः । अप्रमाणसिद्धं चेत्, असिद्धमसिद्धेन साध्यते । इति चेद्, अस्तु, किं सिद्ध्यै ब्रूमः?। १३कणेहत्य वैयात्यतः परास्त्रैर्युयुत्सुरिति प्रमाणसत्तावादिनं प्रति खण्डनवादी प्रत्यवतिष्ठते । तर्हि लोकद्वैतं फलद्वैतं कर्मद्वैतं विरुध्यते । गुरुशिष्यत्वमेवेति बन्धमोक्षद्वयं तथा ॥१॥ तदिदं विष्टपं द्विष्ठमिष्टं कथमद्वैतं सङ्गतिमङ्गति ? । मध्येसभं यत् प्रोच्यमानं हि नौचितीमञ्चति ॥ __ प्रत्यक्षैकप्रमाणवादिनोऽसद्दर्शिनश्चार्वाका अपि प्रमाणं न प्रमाणयन्ति, निगदन्ति च-यश्च परलोकात्मसर्वज्ञमोक्षाभावः प्रत्यक्षपथातिक्रान्तत्वाद् वाजिविषाणवत् । अनुमानागमौ सर्वज्ञाभावान प्रमाणम् । नास्त्यात्मा । संयोगचैतन्यमात्रमेव । धातुकीकुड्मलगुडाम्भःसंयोगादुन्माद इव प्रादुर्बोभवीति । यत्किञ्चिदेतत् पलालपूलप्रायम् । तदुदर्कतोऽनेडकमूका ब्रूयुर्नाम, का नो हानिः ? । संयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुच्चलत्पावकतापिताम्भःस्थाल्यामनेकान्तमिहास्तु तस्य ॥१॥ सुखादि चैत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ 'इदं सुख'मिति ज्ञानं दृश्यते न घटादिवत् । 'अहं सुखी' ति तु ज्ञप्ति- रात्मनोऽपि प्रकाशिका ॥ इत्येवं गणशो वाचोयुक्तीनां वचोयुक्तिभिरात्मनि सिद्धे भवमोक्षौ सिद्धावेव ॥ दर्शनं तदागमः । तन्निदर्शादर्शदर्शनिनः स्वव्यवस्थाया अवस्थिताः षट्। जैन नैयायिक २ वैशेषिक ३ साङ्ख्य ४ सौगत ५ मीमांसका ६ इति । एतैस्तु प्रमाणसत्ताकोटिकुटीरमटाट्यते । एतावता प्रमाणं प्रामाण्य सिद्ध(द्धि)सौधमध्यमध्यासीनम् । सिद्धं नः समीहितम् । जितं जितं वाद्यतां मित्र ! झल्लरी । अलमलं गल्लझल्लरीझात्कारेण । किं बंहीयान् अनेहा नीरसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy