SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ September-2003 13 लकारवत् प्राञ्जलतोज्झितस्य दण्डादृतेऽन्यत्र न हि प्रसङ्गः । किं नाम नाभूत् पुरतोऽर्हतोऽपि, गोशालकस्याऽनर्वधिर्वधार्थः ॥७६|| एकत्वतत्त्वामृतसिन्धुमग्नाः, सनातने ब्रह्मपथे विलग्नाः । प्रत्येकबुद्धा नमिराजमुख्या बाढं मदीये हृदये ध्वनन्ति ॥७७|| ऐश्वर्यसत्सङ्गमगेहदेह-प्राणप्रियास्नेहधनादि सर्वम् ।। तरङ्गभङ्गप्रतिमं विचिन्त्य स्वालोचितं श्रीकरकण्डुपादैः ॥७८॥ ओष्टाविव द्वौ मिलितौ तपः-शमौ, सतां सदा मुख्यतयाऽपवर्गदौ । परस्परप्रीतिपरौ श्रुतौ नवा-ऽनन्ताच्युतौ किं परलोकसाधकौ ? ॥७९॥ औत्सुका(क्य)मग्र्यं गणयन्ति सात्त्विका, दानोपकारव्रतधर्मनिर्मितौ । अहक्षये हन्त विलम्बितैः पथि, श्रीनेमिनाथः प्रणतो न पाण्डवैः ॥८०॥ अंतर्विशुद्धिर्मनसः प्रसाद-श्चारित्रचर्या च बहिर्विशुद्धिः । द्विधा विशुद्धं सुभगं जयश्री-वृणोत्यहो ! विष्णुमिव द्विधापि ॥८१॥ अः सत्त्वमुक्तं र इतो रजो है- स्तमो घखं मूर्ध्नि परात्मधाम । इत्यक्षयं पञ्चदशप्रभेदा अहँ समाश्रित्य न केऽत्र सिद्धाः ? ॥८२॥ कला: कलाकेलिकलङ्ककन्दली-कुद्दालकल्पाः कलिकालरात्रयः । सतां यशोभद्रमुनीशितुः कथा-प्रथा यशोभद्रशतप्रदायकाः ॥८३॥ कः कलङ्कविकलोऽजनि लोके. कः कलानिधिरभूद् गुणगौरः । कः खलेषु पतित: पतितो नं, क: खिंलं ऋषिपथं श्रयति स्म ॥८४|| कः पुरन्ध्रिभिरलाभि न रन्ध्र, तृष्णया भण न कः परिभूतः । कः फणी वनकुटुम्बकरण्डा-न्तर्गतः फलमवाप दुरन्तम् ॥८५।। कः प्रजेश-शिव-बुद्ध-बिड़ौज:-केशवादिकगणोऽपि न जिग्ये । ऊर्मिभिर्भवसमुद्रभवाभि- स्तं विनाऽवनितले जिनमेकम् ॥८६।। खलैः कषायैर्गलहस्तितात्मा, स शूलपाणिर्नरकान्धकूपे । पतन् महावीरजिनेश्वरेण, संरक्षितोऽकारणवत्सलेन ॥८७॥ ३. समस्तं ॥ १. अविनयः ॥ २. चन्द्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy