________________
14
अनुसंधान-२५
गता न के वैषयिकैः सुखैविषै-ग्लानिं परां द्वादशचक्रवर्तिवत् । महाम्बुवाहस्तनितैरिवाऽध्वगाः, पारीन्द्रनादैरिव गन्धसिन्धुराः ॥८८॥ घरट्टवृत्तोऽविरतिस्त्रिया यो, निरन्तरां भ्रान्तिमवापितोऽङ्गी । . गुणान् कणान् हन्त पिनष्टि दुष्टः, स पुण्डरीकानुजवद् विनष्टः ॥८९॥ ङ इव प्रकृतिवक्र: प्राकृतेऽपि प्रतिष्ठां न भजति ङवते वा नाऽस्य बालोऽपि भद्रम् । तदिह सरलतायां विश्वतो वल्लभायां मतिमुपचिनु मत्वा नागचन्द्रेतिवृत्तम् ॥१०॥ चतुरचित्तचमत्कृतिकारिणी, चरणचर्च्यतमाऽत्र चराचरे । चतुरचारु चिराय चिलातिका-तनयचिन्मयताऽचललोचना ॥९१।। छलयिता श्रुतकेवलिना मयि, स्खलयिता महतां मरुतामपि । दृढप्रहारि महामुनिना भवो, विदलितः सकलोऽपि कलावता ॥१२॥ जपतपःक्षपणैः कृपणैरलं, 'रल ! विचारय हारय मा रसम् । समतया मतया समयं नय-नियतमेष्यति माषतुषत्विषम् ॥९३।। जलानिलस्त्रीपरिवर्जकानां, जगत्त्रयीपावनदर्शनानाम् । जडत्ववक्रत्वमुचां मुनीनां, जयातिरेकाय कृता कथाऽपि ॥२४॥ झटिति शैशवतोऽपि शिवं कुरु क्व रुषिते शमये शमनिष्टता । तदतिमुक्तकमौक्तिकलक्षणं न च दधेः श्रवसो किमु भूषणम् ॥९५|| जवदनार्जवशालिनि पृष्टतः कुपुरुषे पुरतः सरलेऽपि हि । मतमुपेक्षणमुक्तमिहागमें न यदभव्यगुरोरपि गौरवम् ॥९६।। टलति कनकशैलो विश्वमध्यस्थतायास्त्रिभुवनगुरुलीलाक्षोभितात्मा कदापि । चलति न तु मुनीनां स्कन्दकाचार्यशिष्यस्थिरचरितधराणामन्तरात्मा क्षयेऽपि ॥९७॥ ठगमोदकैः प्रियतमावचनै-बडिशामिषैर्विविधवित्तभरैः ।
ऋषभाङ्गजस्य ऋषिभानुमतो नमति स्म नाम न मतिः स्वमतात् ॥९८।। १. घरट्टवत् भ्रमितः ॥
२. मूर्खः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org