SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 12 अनुसंधान-२५ अघं न लोकोत्तमचिन्तकानां, पुण्यं न मिथ्यात्विसमागतानाम् । दुःखं न सन्तोषवशंवदानां, सुखं न सारम्भपरिग्रहाणाम् ॥६४॥ अर्हन्तमन्तः स्मरतां न पापं, मिथ्यात्विभिः सङ्गकृतां न पुण्यम् । सन्तोषसाम्राज्यजुषां न दुःखं, परिग्रहारम्भपुषां न सौख्यम् ॥६५॥ आचारमाजीवितमाश्रिताना-माशाविकाशै रहिताशयानाम् । आज्ञामिहाऽऽराध्यति कोऽपि धन्यः, प्रदेशिवत् केशिमुनीश्वराणाम् ॥६६॥ इष्टेष्विहामुत्र सुदुस्त्यजेषु, श्रीराम-सीतावदसङ्गतानाम् । इच्छानिवृत्त्या कपिलोपमानं, गृह्णामि दुःखं ऋषिसत्तमानाम् ॥६७।। ईर्ष्यादिदोषत्यज ईश्वरत्वेऽपीहादिहीनाः सुखसङ्गमेऽपि । पुण्यैः सतामीक्षिततत्त्वमार्गा भवन्ति वीरप्रभुवज्रतुल्याः ॥६८॥ उभौ मनुष्यौ सुमनःपतीनां गोविन्दवद् गौतमवत् प्रशस्यौ । एको वदान्यो जगदीश्वरोऽपि, ज्ञाताखिलार्थोऽपि परो विनीतः ॥६९।। उन्निद्रता शूरकराग्रजाग्रत्सरोरुहस्येव विकाशभाजः । कस्यापि राजत्यभयस्वभावं प्रपद्यमानस्य मनःप्रसत्त्यै ॥७०॥ ऊर्वोxवीक्षाप्रयताः सचेतना, ऊनं प्रपश्यन्ति न के स्वमृद्धिभिः । लोकोत्तरैः सच्चरितैः परं गुरुं कर्तुं क्षमाः केऽपि दशार्णभद्रवत् ॥७१॥ ऋद्धि प्रकृष्टामपि नष्टदृष्टां क्षणेन सन्ध्यामिव येऽवबुध्य । सनत्कुमारस्थितिमाजुषन्ते, तेभ्यो भवेयं बलिरीश्वरेभ्यः ॥७२॥ ऋषितां दधते न के बुधा ऋषिदत्ताचरितं निशम्य तत् । ऋजुता-मृदुता-क्षमा-ऽवनी-'ऋतुराजावतरप्रभाभरम् ॥७३॥ ऋकारवत् क्वापि पदे प्रतिष्ठा सर्वाङ्गवक्रस्य निशम्यते न । ऋजोः प्रसन्नानुजवत्तु जन्तोः, पदे निवासः परमो(मे)ऽपि दृष्टः ॥७४|| लुवर्णवक्रक्षणिकातरङ्गोन्मेषात्तमिश्रा सुपदार्थदृष्टौ ।। यादृक् सुखं तादृगहो सुखादौ, सौमित्रिवत् केचन चिन्तयन्ति ॥७५॥ १. वसन्तः, तस्य अवतरः ॥ ३. विद्युत् ॥ २. वल्कलचीरिवत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy