________________
September-2003
नमः परमवेधसेऽर्हते भास्वते पुरहृतेऽमृतद्युते । अच्युताय सुगताय तायिने भूर्भुवःस्वरपवर्गदायिने ॥ ५२ ॥ चनमस्त्रिपुरुषाचितार्चिषे सर्वदोषरहितात्मनेऽर्हते । व्यापकत्रिगुणतीतमूर्तये लोका (क) पौरुषशिरोमणिश्रिये ॥५३॥
नमो विरजसे स्वयम्भुवे विष्णवे दलितदम्भलये । शम्भवेऽस्ततमसे भवस्थितिध्वंसकारणगुणात्मनेऽर्हते ॥५४॥ |
नमोऽस्तु देवाय चिदात्मनेऽर्हते, नमोऽस्तु शीलाङ्गधराय साधवे । नमोऽस्तु धर्माय दयास्वरूपिणे, नमोऽस्तु रत्नत्रयभक्तिशालिने ॥५५॥ सिद्धं त्रिलोकी सुखवैभवं ध्रुवं सिद्धं प्रसिद्धं तदहो ! गुणाष्टकम् । सिद्धं परब्रह्म तदक्षरं सता-मनादिसिद्धं श्रयतामिहाऽक्षरम् ॥५६॥ तथाहि
षोडशच्छदजुषि स्वरमालां, नाभिकन्दकमले विचरन्तीम् । चिन्तयेदथ सकणिकपद्मे, द्वादशद्वयदले हृदि वर्णान् ॥५७॥
अष्टपत्रयुजि वक्त्रसरोजे,
I
संस्मरन्निति जिताक्षकषायो मातृकां सकलविन्मनुजः स्यात् ॥५८॥ युग्मम्॥ सुधियां चिन्मयधाम्नो जननात् परिपालनात् विशोधनतः । श्रीसिद्धमातृकैवं कमल श्रीर्जयति मातेव ॥ ५९ ॥
11
अनादिनिधनं वेद - सिद्धान्तादि परम्परम् ।
पौरुषेयं परं ज्योति-र्मातृकाख्यमुपास्महे ॥६०॥
पुमर्थशास्त्राण्यखिलानि येभ्यो, बीजोत्करेभ्योऽङ्कुरवद् विकाशम् । गृह्णन्ति सदबुद्धिसुधोक्षितानि, तेभ्योऽक्षरेभ्यः प्रणतोऽस्मि बाढम् ॥ ६१ ॥ सिद्धान्त - तर्क - श्रुत-शब्द-विद्या- वंशादिकन्दप्रतिमप्रतिष्ठान् । अनादिसिद्धान् सुमनः प्रबन्धै- वर्णान् महिष्यामि जगत्प्रसिद्धान् ॥६२॥ तद् यथा
अर्हन्तमेकं शरणं श्रयध्वं धर्मानहिंसाप्रभृतीन् कुरुध्वम् । अनाश्रवत्वाय सदा यतध्वं विमृष्टसम्यक्सुलसावदाताः ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org