Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
12
अनुसंधान-२५ अघं न लोकोत्तमचिन्तकानां, पुण्यं न मिथ्यात्विसमागतानाम् । दुःखं न सन्तोषवशंवदानां, सुखं न सारम्भपरिग्रहाणाम् ॥६४॥ अर्हन्तमन्तः स्मरतां न पापं, मिथ्यात्विभिः सङ्गकृतां न पुण्यम् । सन्तोषसाम्राज्यजुषां न दुःखं, परिग्रहारम्भपुषां न सौख्यम् ॥६५॥ आचारमाजीवितमाश्रिताना-माशाविकाशै रहिताशयानाम् । आज्ञामिहाऽऽराध्यति कोऽपि धन्यः, प्रदेशिवत् केशिमुनीश्वराणाम् ॥६६॥ इष्टेष्विहामुत्र सुदुस्त्यजेषु, श्रीराम-सीतावदसङ्गतानाम् । इच्छानिवृत्त्या कपिलोपमानं, गृह्णामि दुःखं ऋषिसत्तमानाम् ॥६७।। ईर्ष्यादिदोषत्यज ईश्वरत्वेऽपीहादिहीनाः सुखसङ्गमेऽपि । पुण्यैः सतामीक्षिततत्त्वमार्गा भवन्ति वीरप्रभुवज्रतुल्याः ॥६८॥ उभौ मनुष्यौ सुमनःपतीनां गोविन्दवद् गौतमवत् प्रशस्यौ । एको वदान्यो जगदीश्वरोऽपि, ज्ञाताखिलार्थोऽपि परो विनीतः ॥६९।। उन्निद्रता शूरकराग्रजाग्रत्सरोरुहस्येव विकाशभाजः । कस्यापि राजत्यभयस्वभावं प्रपद्यमानस्य मनःप्रसत्त्यै ॥७०॥ ऊर्वोxवीक्षाप्रयताः सचेतना, ऊनं प्रपश्यन्ति न के स्वमृद्धिभिः । लोकोत्तरैः सच्चरितैः परं गुरुं कर्तुं क्षमाः केऽपि दशार्णभद्रवत् ॥७१॥ ऋद्धि प्रकृष्टामपि नष्टदृष्टां क्षणेन सन्ध्यामिव येऽवबुध्य । सनत्कुमारस्थितिमाजुषन्ते, तेभ्यो भवेयं बलिरीश्वरेभ्यः ॥७२॥ ऋषितां दधते न के बुधा ऋषिदत्ताचरितं निशम्य तत् । ऋजुता-मृदुता-क्षमा-ऽवनी-'ऋतुराजावतरप्रभाभरम् ॥७३॥ ऋकारवत् क्वापि पदे प्रतिष्ठा सर्वाङ्गवक्रस्य निशम्यते न । ऋजोः प्रसन्नानुजवत्तु जन्तोः, पदे निवासः परमो(मे)ऽपि दृष्टः ॥७४|| लुवर्णवक्रक्षणिकातरङ्गोन्मेषात्तमिश्रा सुपदार्थदृष्टौ ।।
यादृक् सुखं तादृगहो सुखादौ, सौमित्रिवत् केचन चिन्तयन्ति ॥७५॥ १. वसन्तः, तस्य अवतरः ॥ ३. विद्युत् ॥ २. वल्कलचीरिवत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116