Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ 16 फल्गु वल्गु जनताप्रतारणं, वेदवाक्यमपवादकारणम् । तं मरुन्तमखभञ्जनं' विना, को निवारयति दुःषमारके ||१११|| बध्यतेऽविकलधीः सुधीस्तु नो, वाङ्मनस्तनुविकल्पनागुणैः । उत्थितेन भवनादि दह्यते, वह्निना न गगनं कदाचन ॥ ११२ ॥ भद्रमस्तु भवभीतिभेदिनां, श्रीयुगादिजिन शान्ति - नेमिनाम् । ये निरर्गलभवोत्सवोर्मिभिः सङ्गता अपि चिरं न रङ्गिताः ॥११३॥ मणिपतेरसमैः सुमनःपते - रुपचिता बत ये शमसौरभैः । न कलिकालनिबन्धविगन्धयो, विधुरयन्ति कदाचन तानहो ! | | ११४|| मत्वा क्षणं यदि जिनस्य तदाऽकरिष्यन् पादाः प्रसादममृतोर्मिकिरा गिरा न । हा हन्त तत्कथममी फणिशूलपाणिमुख्यास्तमोमयगरज्वरिणोऽभविष्यन् ॥११५॥ यस्तनोत्यतनुशुद्धिमात्मनो बन्धुदत्तचरितामृतार्णवे । रागनागगरलोर्मयो न तं मूर्च्छयन्ति विषमक्रमा अपि ॥ ११६ ॥ यम-नियमा - ऽऽसन-प्राणा-यम- प्रत्याहार - धारणा - ध्यानम् । सुसमाधिरष्टधैवं, योगः शिवलक्ष्मियोगकरः ॥११७॥ रजस्तमःसत्त्वमयाशयानां, चिरक्षणस्थास्नुगुणप्रमाणे । रतिः क्रमात् कीर्तिशरीरधर्मे, वैगुण्यभाजां तु शिवे मुनीनाम् ॥११८॥ रत्नश्रवः- सम्भव- पद्मनाभ - नारायणानां चरितानि तानि । श्रुतानि केषां ददते न शान्ति, शीतावदातोन्नतिबन्धुराणि ॥ ११९ ॥ लक्ष्ये विशन्त्यविरतेः पुरुषाधमा ये ते प्राप्नुवन्ति जिनरक्षितवद् विपत्तिम् । श्रीवर्द्धमानचरणाम्बुजचञ्चरीका अन्ये तु यान्ति जिनपालितवन्महत्त्वम् ॥१२०॥ वर्द्धिष्णुमैत्री-मुदिता-ऽनुकम्पा - माध्यस्थ्यमेध्यासमताप्रेणीतम् । वक्ष:स्थले कौस्तुभवच्चकास्ति, समत्वमेकं पुरुषोत्तमानाम् ॥१२१॥ १. प्रभवं विना (?); 'रावणं विना' इति स्यात् ॥ २. सहितं ॥ Jain Education International अनुसंधान-२५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116