Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 437
________________ ३५० आख्यानकमणिकोशे परमत्र विधौ विधीयते, किल किं सीहक : ? सा तमब्रवीत् । यदशक्यनिवारणो यमो, जिनराजैनिरदेशि शासने ॥३१॥ तथा हि न गर्न हयैर्न पत्तिभिर्न रथैनैव नयैर्न विक्रमैः । न धनैश्चिरसञ्चितैर्घनै च मन्त्रैरपि वार्यते यमः ॥३२॥ हलभृद्धरि-चक्रवर्तिनः, सुगत-ब्रह्म-पुरन्दरादयः । भुवनत्रयनायका जिना, विधिना धिग ! निहता हहाऽमुना ॥३३॥ पुनरप्यवदत् स बान्धवो, जठरे सुन्दरि : स त्वया धृतः । प्रणयेन च पालितस्तरां, सरसाहारवशाच्च लालितः ॥३४॥ तदियं किमलौकिकी तव, प्रथिता निर्वरता सते निजे ? । तदनु प्रियवाग मनोरमा, सदयं सीहकमाह सन्मतिः ॥३५।। यदि पालन-कुक्षिधारणं, स्वजनस्नेहनिमित्तमुच्यते । विहितं च परस्परं तकद्, भविभिः सन्तु समेऽप्यमी निजाः ॥३६॥ शृणु सीहक ! शासनस्थिति, भवकान्तारमनन्तमृच्छतः । समभूत् प्रतिदेहिनं यतः, स्वकभावो बहुधाऽपि देहिनः ॥३७॥ तदयं भविको विवेकवान् , वद केन प्रतिबन्धमृच्छतु ? । समभावतयैव वर्तनं, मुनिवत् सङ्गतमङ्गिनां ततः ॥३८॥ इति संसरतां तनूमता, स्वजनः को वद ? कोऽथवा परः ? । इति युक्तिवचोभिरीदृशैनिजके मौनमुपेयुषि क्षणम् ॥३९॥ भणिता च सुतप्रियाऽनया,तव भर्ता कथितोऽमुना मृतः । तदशक्यनिराकृतौ विधौ,क्रियते किं ? कुरु मानसों धृतिम् ॥४०॥ अधुना तु गृहीतभोजना, चलिता श्वसुर-वराय यद्यपि । श्वसुरस्य कृतेऽशनं नयेरिदमास्तां पतिभक्तभाजनम् ||४१॥ विहितेच तया तथैव तां,निजगादाऽथ निजः सुतप्रियाम् । पतिमद्य न शोचसेऽङ्ग! किं,चलिताऽन्यत्र शुचः पदेऽपि यत् ॥४२॥ जगदेऽथ तया पति विदुर्जिनधर्म मुगुरुं जिनेश्वरम् । अपरे पुनरात्मपोषकाः, पतयस्तात ! भवे भवेऽभवन् ॥४३॥ यदि वेदिम शुचोऽपि सत्फलं, तदहं रोदिमि वच्मि विक्लवम् । उपहन्मि वपुः पति स्तुवे,नितरामद्मिन भक्तमप्यदः ॥४४॥ विहितेऽपि यदेवमस्ति न, प्रकृतं किश्चिदपि प्रयोजनम् । प्रथयेच्छुगियं कृता तदा, बत ! कर्तुळूवमजतामलम् ॥४५॥ यदि शोककृदानयेन्मृतं, म्रियमाणं विनिवर्तयेज्जनम् । विदधातु शुचं न चेदिदं, द्वितयं किं कृतयाऽनया वृथा ? ॥४६॥ कुपितैः किल कुट्यते यकद् ,विपदि स्वेन निजं शरीरकम् । बत ! सम्प्रति तेन नृत्यते, प्रकटाङ्गं किल का विदग्धता ?॥४७॥ कुधियः क्वचिदतिसङ्गताः, किल कुर्युः शुचमङ्गकैर्यकैः । विलसन्ति तदैव तैरमी, मनुजानां धिगिमां विडम्बनाम् ॥४८॥ चरणैरिह शोकतो यकैबिलिखद्भिर्भुवमङ्ग शोचितम् । मुदितैरिह गम्यते तकैर्विलसद्भिभुवि हंसलीलया ॥४॥ गुरुशोकवशेन ताड्यते, हृदयं यत् स्वकरैः सुनिर्दयम् । तदपि प्रियहारयष्टिभिः प्रमदेऽलकियते विचेतनः ॥५०॥ शुचि निर्भरमुक्तपूत्कृतिव्यथितैर्यन मुखेन रुद्यते । गुरुपर्वणि तेन गीयते, किल कीदृश्यपरा विडम्बना ? ||५१।। नयनर्गलदश्रकं जनः, शशचे यैरिह तैरपत्रपः । सकटाक्षमपाङ्गसञ्चरन्नयनव्यंशमयं निरीक्षते ॥५२॥ इति बहुविधमूढलोकजं, कियदसमञ्जसमत्र कथ्यते ? । जिनवाक्यविशुद्धचेतसां, पुनरेवंकरणं न सङ्गतम् ॥५३॥ तदिदं गुणवत्तया प्रियं, प्रथितं भव्यकुटुम्बकं जने । इह मोह जयाद बृहत्सुखं, परलोकेऽपि च सद्गतिं गतम् ॥५४॥ प्रशमय्य मनो विवेकतस्तदनेनैव कुवासनामयम् । गृह-पुत्र-कलत्र-सम्पदां, प्रलयेऽप्यङ्ग ! न शोच्यमङ्गिभिः ॥५५॥ ॥ इति भव्यकुटुम्बाख्यान समाप्तम् ॥१२२॥ यद्वद् बभूव भुवि भव्यकुटुम्बकस्य, सर्वज्ञशासनवचोऽमृतभावितस्य । बन्धावशोककरणं महते गुणाय, तद्वद् भवेत् तदितरेप्वपि मानवेपु ॥१॥ ॥इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जिन शासन भावितमतिषु शोकाकरणप्रतिपादन परश्चत्वारिंशोऽधिकारः समाप्त इति ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504