Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 457
________________ ३७० आख्यानकमणिकोशवृत्तिप्रशस्तिः । धर्मार्थं व्ययतो धनं सफलतां यस्याऽगमद् धीमतः ॥ १७॥ स सिद्धनागः .... सु लब्धजन्मा, सदाकृतिर्धर्मविशुद्धकर्मा । पुत्रोऽभवत् तस्य जनप्रसिद्धः, पुण्यानुभावाच्च सदा समृद्धः ||१८|| तस्मादपि दौस्थित्यात्, कुतोऽपि धवलक्कके समायातः । आस्ते स सिद्धनामा, तत्रापि जने गुणैः प्रथितः ॥ १९ ॥ अन्यच्च येन कारितमतिरम्यं भव्यजनमनोहारि । सीमन्धरजिनबिम्बं रमणीये मोढचैत्यगृहे ॥२०॥ त्यागी भोगी देव- गुर्वादिभक्तो, जैने धर्मे प्रेमरागानुरक्तः । वार्द्धक्येऽभूदेक उद्योतनाहः, पुत्रस्तस्य व्यक्तदुष्टद्विजिह्नः ॥२१॥ श्री नेमिचन्द्रसूरेर्वाक्यात् तदनु स्वशिष्यभणनाच्च । उद्योतनसच्छ्रावकविशेषसद्भक्तिवचनाच्च ॥२२॥ तत्रैव बृहद्गच्छे रत्नाकरसन्निभे प्रसूतेन । प्राकृतमणिकल्पेन, श्रुत-गुरुबहुमानसहितेन ॥२३॥ श्रीपदसङ्गतनाम्ना, श्रीमज्जिनचन्द्रसू रिशिष्येण । रचिताऽऽम्र देवमुनिपेन वृत्तिरेषा स्वबोधेन ||२४|| व्याख्याप्रज्ञप्ताविव, लब्धवरायामिहापि सद्वृत्तौ । श्रुतिसुखदवर्णरुचिरा, विचित्रगम-भङ्गरमणीया ॥२५॥ सुव्यक्तमेकचत्वारिंशदनूना भवेयुरधिकाराः । तत्र सतानी च विचारश्रुता अग्र्यवृत्ताश्च ( ) ||२६|| सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः । रचितेषु शास्त्रविवरणकथाप्रबन्धेषु सरसेषु ||२७|| कीदृगिदं मत्काव्यं ? तदपि ग्राह्यं कृतप्रचुरकरुणैः । मयि वल्लभमाध्यस्थ्ये, माध्यस्थ्यगुणान्वितैः सद्भिः ||२८|| छन्दोलक्षणविकलं, समयोत्तीर्णं च यत् किमपि लिखितम् । तच्छोध्यं विद्वद्भिः कृताञ्जलिः प्रार्थये भवतः ॥ २९ ॥ अन्यच्च नेमिचन्द्रा गुणाकराः पार्श्वदेवनामानः । एते त्रयोऽपि गणयो विपश्चितो मुख्यनिजशिष्याः ||३०|| साहाय्यं कृतवन्तो मम लेखन - शोधनादिकृत्येषु । आधानोद्धरणे च प्रमादविकलाः कलाकुशलाः ॥३१॥ नवत्या युक्तेषु प्रथितयशसो विक्रमनृपा आजन्मापि जिनेश्वरस्य सदने बिम्बे जिनाभ्यर्चने, तीर्थानामभिवन्दने जिन् नतव्यालेखनेऽलङ्कृतौ । श्रीमत्सूरि- महत्तरापद - जिनप्रवाजनादौ शुभं, च्छतेषु क्रान्तेषु त्रिनयनसमानेषु शरदाम् । अजय्ये सौराज्ये जयति जयसिंहस्य नृपते-, रियं स्थानीयेऽगाद् धवलकपुरे सिद्धिपदवीम् ॥३२॥ श्रेष्ठियशोनागस्याऽऽरब्धा वसताववस्थितैः सद्भिः । वसतां सम्यगवसिता वसतावच्छुप्तसत्कायाम् ॥३३॥ भुवनानीव चतुर्दश धातुर्मम रम्यवर्ण - पदभाञ्जि । अक्षरगणनाद् ग्रन्थो जातोऽनुष्टुप्सहस्राणि ॥ ३४ ॥ मानसगर्भे स्थित्वा, लक्षणयुगयं सपादनवमासैः । आख्यानकमणिकोशः, सुत इव समपाचि सद्वृत्तिः ॥ ३५॥ यावच्चन्द्रश्च सूर्यश्च, यावन्मेरुर्महीतलम् । स्वर्गा ऽपवर्गवत् तावन्नन्द्यादेषाऽपि मत्कृतिः || ३६ || ग्रन्थाग्रम् १४००० ॥ १. भाजि - प्रतौ । ॥ इति श्रीमदाम्र देवसूरिविरचितवृत्तावाख्यानकमणिकोशवृत्ति[प्रशस्तिः] समाप्तेति ।। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ १ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504