________________
३५०
आख्यानकमणिकोशे परमत्र विधौ विधीयते, किल किं सीहक : ? सा तमब्रवीत् । यदशक्यनिवारणो यमो, जिनराजैनिरदेशि शासने ॥३१॥ तथा हि
न गर्न हयैर्न पत्तिभिर्न रथैनैव नयैर्न विक्रमैः । न धनैश्चिरसञ्चितैर्घनै च मन्त्रैरपि वार्यते यमः ॥३२॥ हलभृद्धरि-चक्रवर्तिनः, सुगत-ब्रह्म-पुरन्दरादयः । भुवनत्रयनायका जिना, विधिना धिग ! निहता हहाऽमुना ॥३३॥ पुनरप्यवदत् स बान्धवो, जठरे सुन्दरि : स त्वया धृतः । प्रणयेन च पालितस्तरां, सरसाहारवशाच्च लालितः ॥३४॥ तदियं किमलौकिकी तव, प्रथिता निर्वरता सते निजे ? । तदनु प्रियवाग मनोरमा, सदयं सीहकमाह सन्मतिः ॥३५।। यदि पालन-कुक्षिधारणं, स्वजनस्नेहनिमित्तमुच्यते । विहितं च परस्परं तकद्, भविभिः सन्तु समेऽप्यमी निजाः ॥३६॥ शृणु सीहक ! शासनस्थिति, भवकान्तारमनन्तमृच्छतः । समभूत् प्रतिदेहिनं यतः, स्वकभावो बहुधाऽपि देहिनः ॥३७॥ तदयं भविको विवेकवान् , वद केन प्रतिबन्धमृच्छतु ? । समभावतयैव वर्तनं, मुनिवत् सङ्गतमङ्गिनां ततः ॥३८॥ इति संसरतां तनूमता, स्वजनः को वद ? कोऽथवा परः ? । इति युक्तिवचोभिरीदृशैनिजके मौनमुपेयुषि क्षणम् ॥३९॥ भणिता च सुतप्रियाऽनया,तव भर्ता कथितोऽमुना मृतः । तदशक्यनिराकृतौ विधौ,क्रियते किं ? कुरु मानसों धृतिम् ॥४०॥ अधुना तु गृहीतभोजना, चलिता श्वसुर-वराय यद्यपि । श्वसुरस्य कृतेऽशनं नयेरिदमास्तां पतिभक्तभाजनम् ||४१॥ विहितेच तया तथैव तां,निजगादाऽथ निजः सुतप्रियाम् । पतिमद्य न शोचसेऽङ्ग! किं,चलिताऽन्यत्र शुचः पदेऽपि यत् ॥४२॥ जगदेऽथ तया पति विदुर्जिनधर्म मुगुरुं जिनेश्वरम् । अपरे पुनरात्मपोषकाः, पतयस्तात ! भवे भवेऽभवन् ॥४३॥ यदि वेदिम शुचोऽपि सत्फलं, तदहं रोदिमि वच्मि विक्लवम् । उपहन्मि वपुः पति स्तुवे,नितरामद्मिन भक्तमप्यदः ॥४४॥ विहितेऽपि यदेवमस्ति न, प्रकृतं किश्चिदपि प्रयोजनम् । प्रथयेच्छुगियं कृता तदा, बत ! कर्तुळूवमजतामलम् ॥४५॥ यदि शोककृदानयेन्मृतं, म्रियमाणं विनिवर्तयेज्जनम् । विदधातु शुचं न चेदिदं, द्वितयं किं कृतयाऽनया वृथा ? ॥४६॥ कुपितैः किल कुट्यते यकद् ,विपदि स्वेन निजं शरीरकम् । बत ! सम्प्रति तेन नृत्यते, प्रकटाङ्गं किल का विदग्धता ?॥४७॥ कुधियः क्वचिदतिसङ्गताः, किल कुर्युः शुचमङ्गकैर्यकैः । विलसन्ति तदैव तैरमी, मनुजानां धिगिमां विडम्बनाम् ॥४८॥ चरणैरिह शोकतो यकैबिलिखद्भिर्भुवमङ्ग शोचितम् । मुदितैरिह गम्यते तकैर्विलसद्भिभुवि हंसलीलया ॥४॥ गुरुशोकवशेन ताड्यते, हृदयं यत् स्वकरैः सुनिर्दयम् । तदपि प्रियहारयष्टिभिः प्रमदेऽलकियते विचेतनः ॥५०॥ शुचि निर्भरमुक्तपूत्कृतिव्यथितैर्यन मुखेन रुद्यते । गुरुपर्वणि तेन गीयते, किल कीदृश्यपरा विडम्बना ? ||५१।। नयनर्गलदश्रकं जनः, शशचे यैरिह तैरपत्रपः । सकटाक्षमपाङ्गसञ्चरन्नयनव्यंशमयं निरीक्षते ॥५२॥ इति बहुविधमूढलोकजं, कियदसमञ्जसमत्र कथ्यते ? । जिनवाक्यविशुद्धचेतसां, पुनरेवंकरणं न सङ्गतम् ॥५३॥ तदिदं गुणवत्तया प्रियं, प्रथितं भव्यकुटुम्बकं जने । इह मोह जयाद बृहत्सुखं, परलोकेऽपि च सद्गतिं गतम् ॥५४॥ प्रशमय्य मनो विवेकतस्तदनेनैव कुवासनामयम् । गृह-पुत्र-कलत्र-सम्पदां, प्रलयेऽप्यङ्ग ! न शोच्यमङ्गिभिः ॥५५॥
॥ इति भव्यकुटुम्बाख्यान समाप्तम् ॥१२२॥ यद्वद् बभूव भुवि भव्यकुटुम्बकस्य, सर्वज्ञशासनवचोऽमृतभावितस्य ।
बन्धावशोककरणं महते गुणाय, तद्वद् भवेत् तदितरेप्वपि मानवेपु ॥१॥ ॥इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे जिन शासन भावितमतिषु शोकाकरणप्रतिपादन
परश्चत्वारिंशोऽधिकारः समाप्त इति ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org