Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२९२
पिण्डनियुक्तिः-मूलसूत्रं कृतंन कल्पते श्रावकाणां त्वर्थाय कृतं कल्पते,नप्रवचनतःसाधर्मिका नापिलिङ्गतस्तीर्थकर-प्रत्येकबुद्धाः, तेषां प्रवचनलिङ्गातीत्वात. तेषामर्थाय कृतं कल्पते, द्वितीया चतुर्भङ्गिका प्रवचनतः साधर्मिका न दर्शनतो, साधर्मिका नप्रवचनतः साधर्मिका दर्शनतश्च,नप्रवचनतो न दर्शनतः, तत्राद्यभङ्गद्वयोदाहरणमाहमू. (१६९) विसरिसदसणजुत्ता पवयणसाहम्मियान दंसणओ।
तित्थगरा पत्तेया नोपवयणदंससाहम्मी। वृ. प्रवचनतः साधर्मिका न दर्शनतः, 'विसदृशदर्शनयुक्ताः' विभिन्नक्षायिकादिसम्यक्त्वयुक्ताः साधवःश्रावकावा, किमुक्तं भवति?-एकेषांसाधूनांश्रावकाणांवाक्षायोपशमिकंदर्शनमपरेषांत्वौपशमिकं क्षायिकंवातेपरस्परंप्रवचनतःसाधर्मिकानदर्शनतः, तत्र साधूनामर्थाय कृतंसाधूनांन कल्पते श्रावकाणां त्वर्थाय कृतंकल्पतेतथादर्शनतःसाधर्मिकानप्रवचनतःतीर्थकाराःप्रत्येकबुद्धावासमानदर्शनावेदितव्याः, तेषामर्थाय कृतं साधूनां कल्पते. प्रवचनतः साधर्मिका दर्शनतच. साधवःश्रावकावासमानदर्शनाः, अत्रापि साधूनामयिकृतंनकल्पतेश्रावकाणांत्वार्थायकृतंकल्पते.नप्रवचनतोनापिदर्शनतस्तीर्थकरप्रत्येकबुद्धनिलवाः, तत्र तीर्थकराःप्रत्येकबुद्धाश्चविभिन्नदर्शनावेदितव्याः, निवाश्च मिथ्यादृष्टयःप्रतीयाएव, एतेषांच सर्वेषामर्थाय कृतं कल्पते। तृतीया चतुर्भङ्गि प्रवचनतः साधर्मिका न ज्ञानतः साधर्मिका न प्रवचनतः, प्रवचनतोऽपि साधर्मिका ज्ञानतश्च, प्रवचनतो नापिज्ञानतः, एवं चतुर्थ्यपि चतुर्भङ्गिका प्रवचनस्य चारित्रेण सह वेदितव्या, एतयोढूयोरपि चतुर्भङ्गिकयोराद्यमाचं भङ्गद्वयमतिदेशेनोदाहरति
मू. (१७०/१) . नाणचरित्ता एवं नायव्वा होति पवयणेणं तु।
वृ. यथा प्रवचनेन सह दर्शनमुक्तम्, एवं ज्ञानचारित्रे अपि प्रवचनेन सह ज्ञातव्ये, तद्यथा-प्रवचनतः साधर्मिका न ज्ञानतः, विसदशज्ञानसहिताः साधवः श्रावकावा, अत्रापि यदि साधवस्तर्हि न कल्पते, अथ श्रावकास्तर्हि कल्पते, ज्ञानतःसाधर्मिकानप्रवचनतः, तीर्थकराः पयत्येकबुद्धा वा समानज्ञानाः, तेषामर्थाय कृतंकल्पते,प्रवचनतःसाधर्मिकाज्ञानतश्च, साधवःश्रावकावासमानज्ञानाः,अत्रापिसाध्वर्थंकृतंनकल्पते, श्रावकाणांत्वयकृतंकल्पते,नप्रवचनतोनापिज्ञानतस्तीर्थकरप्रत्येकबुद्धनिह्नवाः, तत्रतीर्थकराःप्रत्येकबुद्धश्च विभिन्नज्ञानावेदितव्याः, निवास्तु मिथ्यादृष्टित्वादशानिनःप्रतीताएव, एतेषा' सर्वेषामप्यायकृतं कल्पते, तथा प्रवचनतः साधर्मिका न चारित्रतः साधवः श्रावकाच, तत्र साधवो विसदृशचारित्रसहिता वेदितव्याः, श्रावकाणां त्वविरतसम्यग्दृष्टीनां सर्वथा विरत्यभावेन देशवरितानांतु देशचारित्रतया चारित्रतः साधर्मिकत्वाभावः सुप्रतीतः, साध्वर्थं चेत्कृतं न कल्पते श्रावकार्थं चेत्तर्हि कल्पते, चारित्रतः साधर्मिकान प्रवचनतः, तीर्थकरप्रत्येकबुद्धाः समानचारित्राः, तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिकाथारित्रतश्च साधवः समानचारित्राः, तेषामायकृतंन कल्पत,नप्रवचनतो नापिचारित्रतस्तीर्थकरप्रत्येकबुद्धिनिहवा, तत्रतीर्थकरप्रत्येकबुद्धाविसदृशचारित्रावदितव्याः,निलवास्त्वचारित्रिणएव, एतेषांचसर्वषामप्यायकृतं कल्पते॥पञ्चमीचतुर्भङ्गिकाप्रवचनतःसाधर्मिकानाभिग्रहतः, अभिग्रतःसाधर्मिकानप्रवचनतः, प्रवचनतोऽपि असाधर्मिक अभिग्रहतच, न प्रवचनतोऽपि नाप्यभिग्रहतश्च, एवं षष्ठ्यपि चतुर्भङ्गिका प्रवचनस्य भावनया यह वेदितव्या, एतयोर्द्वयोरपि चतुर्भङ्गियोः प्रत्येकमा भङ्गव्यमुदाहरति
मू. (१७०/२). पवयणओ साहम्मी नाभिग्गह सावगा जइणो॥ मू. (१७१) साहम्मऽभिग्गहेणं नोपवयण निण्ह तित्थ पत्तेया।
एवं पवयणभावण एत्तो सेसाण वोच्छामि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436