Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४०६
उब्भिज्ज पिज्ज कंगू तक्कोल्लणसूवकंजिकढियाई ।
एए उ अप्पलेवा पच्छाकम्मं तहिं भइयं ॥
मू. (६६६ )
वृ. 'उद्भेद्या' वस्तुलप्रभृतिशाकभर्जिका 'पेयाः' यवागूः 'कंगू:' कोद्रवौदनः 'तक्रं' तक्राख्यम् 'उल्लणं' येनौदनमाद्रींकृत्योपज्युते ‘सूपः' राब्दमुद्गदाल्यादिः 'काज्जिकं' सौवीरं 'क्वथितं' तीमनादि, आदिशब्दादन्यस्यैवंविधस्य परिग्रहः, एतानि द्रव्याण्यल्पलेपानि । एतेषु पश्चात्कर्म भाज्यं कदाचिद्भवति कदाचिन्नेति भावः । सम्प्रति बहुलेपानि द्रव्याणि दर्शयति
मू. (६६७)
खीर दहि जाउ कट्टर तेल्ल घयं फाणियं सपिंडरसं ।
पिण्डनिर्युक्तिः- मूलसूत्रं
इच्चई बहुलेवं पच्छाकम्मं तहिं नियमा ॥
वृ. ‘क्षीरं' दुग्ध 'दधि' प्रतीतं 'जाउ' क्षीरपेया 'कट्टरं' प्रागुक्त स्वरूपं तैलं धृतं च प्रतीतं, 'फाणितं ' गुडपानकं ‘सपिण्डरसम्’ अतीव रसाधिकं खर्जूरादि इत्यादि द्रव्यजातं बहुलेपं द्रष्टव्यं । तत्र च पश्चात्कर्म नियमतः, अत एव यतयो दोषमीरखस्तानि न गृह्यन्ति । यदुक्तं - 'पच्छाकम्मं तहिं भइयं 'ति सम्प्रति तामेव भजनामष्टभङ्गिकया दर्शयतिमू. (६६८)
Jain Education International
संसद्वेयर इत्थो मत्तो विय दव्व सावसेसियरं । एएस अट्ठभंगा नियमा गहणं तु ओएस ॥
वृ. दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, मात्रकमपि च येन कृत्वा भिक्षां ददाति तदपि मात्रं संसृष्टसंसृष्टं वा, द्रव्यमपि सावशेषं निरवशेषं वा एतेषां च त्रयाणां पदानां संसृष्टहस्तसंसृष्टमात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ भङ्गा भवन्ति, ते चामी -संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं १, संसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३, संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ४, असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं ५, असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं ६, असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ७, असंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं द्रव्यं ८, एतेषु चाष्टसु भङ्गेषु मध्ये 'नियमात् ' निश्रयेन 'ओजस्सु' विषमेषु भङ्गेषु प्रथमतृतीयपञ्चमसप्तमेषु ग्रहणम्' आदानंकर्त्तव्यं, नसमेषु द्वीतीय चतुर्थष्ठाष्टमरूपेषु, इयं चात्रभावना - इहहस्तो मात्रं वा द्वे वा खयोगेन संसृष्टे वा भवतोऽसंसृष्टे वा न तद्वशेन पञ्चात्कर्म सम्भवति, किं तर्हि ? - द्रव्यवशेन्, तथाहि यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थं खरण्टिते अपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात्, यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्द्रव्याधारस्थाली हस्तं मात्रं वा प्रक्षालयति, ततो द्वितीयाद्विषुभङ्गेषुद्रव्येनिरवशेषेपञ्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषुतुपश्चात्कर्मासम्भवात्कल्पते इति । सचित्ते अचित्ते मीसग तह छड्डुणे य चउभंगो ।
मू. (६६९)
चभंगे पडिसेहो गहणे आणाइणो दोसा ||
वृ. छर्दितमुज्झितं त्वक्तमिति पयार्याः, तच्च त्रिधा, तद्यथा-सचित्तमचित्तं मिश्रं च, तदपि च कदाचिच्छंद्यते 'सश्चित्ते' सचत्तिमध्ये कदाचिदचित्ते कदाचिन्मिश्रे तत एवं छर्दन सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाधेयभूतानां च संयोगश्चतुर्भङ्गीभवति, अत्र जातोवेकवचनं, ततोऽयमर्थः- तिस्रचतुर्भङ्गयो भवन्ति, तद्यथा - सचित्तमिश्रपदाभ्यामेका, सचित्ताचित्तपदाभ्यां द्वितीया, मिश्राचित्तपदाभ्यां तृतीया, तत्र सचित्ते सचित्तं छर्दितं मिश्रे सचित्तं सचित्ते मिश्रं मिश्रे मिश्रामिति प्रथमा, सचित्ते सचित्तम्, अचित्ते सचित्तं सचित्तेऽचित्तम्, अचित्तेऽचित्तमिति द्वितीया, मिश्र मिश्रम्, अचित्ते मिश्रं मिश्रेऽचित्तम् अचित्तेऽचित्तमिति
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436