Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-६८५
४११ मू. (६८५) एत्तो किणाइ हीनं अद्धं अद्वद्वगं च आहारं।
साहुस्स बिति धीरा जायामायं च ओमंच॥ वृ. 'एतस्मात्' द्वात्रिंशत्कवलप्रमाणाहारात् किणाई' इति किश्चिन्मात्रयाएकेनद्वाभ्यां त्रिभिश्चतुर्भिर्वा कवलैः साधोहीन हीनतरं यावदम् अर्द्धस्याप्यर्द्धमाहारं यात्रामाहारं धीराः-तीर्थकृदादयो ब्रुवते, न्यूनंच। एष यात्रामात्राहार ए। एव चावमाहार इति भावः। तदेवमुक्त माहारप्रमाणं, सम्प्रति प्रमाणदोषानाहमू. (६८६) पगामंच निगामंच, पनीयं भत्तपानमाहरे।
अइबयं अइबहसो, पमाणदोसोमणेयव्वो॥ वृ. यः प्रकामं निकामं प्रणीतं वा भक्तापानमाहारयति तथाऽतिबहुकमतिबहुशश्च तस्य प्रमाणदोषो ज्ञातव्यः । सम्प्रति प्रकामादिस्वरूपमाहमू. (६८७) बत्तीसाइ परेण पगाम निच्चं तमेव उनिकामं।
___जंपुन गलंतनेहं पणीयमिति तंबुहा बेंति॥ वृ.द्वात्रिंशदादिकवलेभ्यः परेण परतोमुञानस्ययभोजनंतत्प्रकामभोजनं, तमेवतु प्रमाणातीतमाहारं प्रतिदिवसमश्नतो निकामभोजनं, यत्पुनर्गलस्नेहं भोजनं तत्प्रणीतं बुधाः' तीर्थकृदादयो ब्रुवते। तथामू. (६८८) अइबहुयं अइबहुसो अइप्पमाणेन भोयणं भोत्तुं।
हाएज्ज व वामिज्ज व मारिज वतं अजीरंतं॥ वृ. अतिबहुकं-वक्ष्यमाणस्वरूपमतिबहुशः-अनेकशोऽतृप्यता सता भोजनं भुक्तं सत् ‘हादयेत्' अतीसारं कुर्यात्, तथा वामयेत्, यद्वा तदजीर्यर्यन्मारयेत्, तस्मान्न प्रमाणातिक्रमः कर्त्तव्य इति सम्प्रत्यति। मू. (६८९) बहुयातीयमइबहुं अइबहुसो तिन्नि तिन्न व परेणं।
तंचिय अइप्पमाणंभुंजइ जंवा अतिप्पंतो॥ वृ.बहुकातीतम्-अतिशयेनबहु,अतिशयेननिजप्रमाणाभ्यधिकमित्यर्थः, तथादिवसमद्येयस्त्रीन्वारान् भुङ्क्ते , त्रिभ्योवावारेभ्यः परतस्तद्भोजनमतिबहुशः, तदेववारत्रयातीतमतिप्रमाणमुच्यते, अइप्पमाणे'त्यवयवो व्याख्यातः, अस्यैव प्रकारान्तरेण व्याख्यानमाह-भुक्ते यद्वाऽतृप्यन् एष अइप्पमाण' इत्सस्य शब्दास्यार्थः, अइप्पमाणे' इत्यत्रचनप्रत्ययस्ताच्छील्पविवक्षायायद्वाप्राकृतलक्षणवशादिति । सम्प्रति प्रमाणयुक्त हीनहीनतरादिभोजने गुणमाहम. (६९०) हियाहारा मियाहारा, अप्पाहारा यजेनरा।
नते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा। - वृ. हितं द्विधा-द्रव्यतो भावतच. तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीयं तदाहारयन्ति येते हिताहाराः, 'मित’ प्रमाणोपतमाहारयन्तीति मिताहाराः, द्वात्रिंशत्कवलप्रमाणादप्यल्यमल्पतरं वाऽऽहारयन्तीत्यल्पाहाराः, सर्वत्रवाबहुव्रीहिः, हितआहारायेषांतेहिताहाराइत्यादि, एवंविधायेनरास्तानवद्या नचिकित्सन्ति, हितमितादिभोजनेनतेषांरोगस्यैवासम्भवात,किन्त्वेवंमूलतएवरोगोत्थानप्रतिषेधकरणेनात्मनैवात्मनस्ते चिकित्सिकाः । साम्प्रतमहितहितस्वरूपमाह. मू. (६९१) तेल्लदहिसमाओगा अहिओ खीरदहिकंजियाणं च।
पत्थं पुन रोगहरं न य हेऊ होइ रोगस्स॥ वृ. दधितैलयोस्तथा क्षीरदधिकाधिकानां च यःसमायोगः सोऽहितः, विरुद्ध इत्यर्थः, तथा चोक्तम्
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436