Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं- ६६९
४०७
तृतीया, सर्व सङ्ख्यया द्वादश भङ्गाः सर्वेषु च भङ्गेषु सचित्तः पृथिवीकाय: सचित्तपृथिवीकामध्ये छर्दित इत्यादिरूपतयास्वस्थानपरस्थानाभ्यां षट्त्रिंशत् षट्त्रिंशद्विकल्पाः, ततः षट्त्रिंशद्दादशभिर्गुणिताजातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु स सर्वेषु भङ्गेषु प्रतिषेधो भक्तादिग्रहणनिवारणं, यदि पुनर्ग्रहणं कुर्यात्ततः 'आज्ञादयः' आज्ञाऽनवस्थामिथ्यात्वरिधनारूपा दोषाः । इह 'आद्यन्तग्रहणे मद्यस्यापि ग्रहण मिति न्यायादौदेशिकादिदोषदुष्टानामपिभक्त । दीनां ग्रहणे आज्ञादयो दोषाद्रष्टव्याः । सम्प्रतिछर्दितग्रहणे दोषानाहमू. (६७०) उसिणस्स छडणे देंतओ व डज्झेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदुआहारणं ॥
वृ. उष्णस्यद्रव्यस्य' छर्दने' समुज्झने ददमानो वा भिक्षां दह्यते, भूम्याश्रितानांवा 'कायाना' पृथिव्यादीनां दाहःस्यात्,शीतद्रव्यस्यभूमौपतनेभूम्याश्रिताः 'कायाः' पृथिव्यादयोविराध्यन्ते, तत्रपतितेमधुबिन्दूदाहरणंवारत्तपुरं नाम नगरं, तत्राभयसेनो नाम राजा. तस्यामात्यको वारत्तकः, अन्यदा चात्वरिमचलमसम्भ्रान्तमेषणासमितिसमेतो धर्मघोषनामा संयतो भिक्षामटस्तस्य गृहं प्राविशत्, तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपायसभृत स्थालमुत्पाटितवती, अत्रान्तरं च कमथपि ततः खण्डसिम्मिश्रो घृतबिन्दुभूमी निपतितः, ततोभगवान्, धर्मचोषो मुक्ति पदैकनिहितमानसोजलधिरिव गम्भीरो मेरुरिव निष्प्रकम्पो वसुधेव सर्वंसहः शङ्ख इव रागादिभिररञ्जनो महासुभट इव कर्मरिपुविदारमनिबद्धकक्षो भगवदुपशिष्टभिक्षाग्रहणविधिविधानकृतोद्यमो भिक्षेयं छर्तितदोषदुष्टा तस्मान्न मे कल्पते इति परिभाव्य ततो निर्जगाम, वारत्तकेन चामात्येनमत्तवारणथितेन दृष्टो भगवान्, निर्गच्छन्, चिन्तयति च स्वचेतसि - किमनेन भगवता न गृह्यते मेगृहेभिक्षेति?,एवंचयावचिन्तयति तावत्तं भूमौ निपतितंखण्डयुक्तं धृतबिन्दुमक्षिकाः समागत्याशिश्रियन्, तासांचभक्षणायप्रधावितागृहगोधिका, गृहगोधिकाया अपिवधायप्रधावितः सरटः, सरटस्यापि चभक्षणाय प्रधावति स्म मार्जारी, तस्या अपि च वधाय प्रधावितः प्राधूर्णकः, श्वा, तस्यापि च प्रतिद्वन्द्वी प्रधावितोन्यो वास्तव्य, श्वा, ततो द्वयोरपि तयोः शुनोरभूत् परस्परं कलहः, तत- स्वस्वसारमेयपराभवद्वनमनस्कतया प्रधाक्ति र्योर्द्वयोरपि ततस्वामिनोरभूत् परस्परमस्यसि युद्धम्, एतञ्च सर्वं वारत्तकामात्येन परिभावितं,
ततश्चिन्तयति स्वचेतसि-घृतादेर्बिन्दुमात्रेऽपि भूमौ निपतिते यत एवमधिकरणप्रवृत्तिः अत एवाधिकरणभीरुर्भगवान्, घृतबिन्दुभूमौ निपतितमवलोक्य भिक्षांनगृहीतवान्, अहो । सुदृष्टो भगतवा धर्मः, कोहिनामभगवन्तं सर्वज्ञमन्तरेणेत्थमनपायिनं धर्ममुपदेष्टुमीशः ?, नस्वत्वंरूपविशेषंजानाति, एवमर्सजोऽपि नेत्थंसकलकालमनपायं धर्ममुपदेष्टुमलं, तस्माद्भगवानेव सर्वज्ञः, सएव चमेजिनो देवता, तदुक्तमेवानुष्ठानं मयाऽनुष्ठान्तव्यमित्यादिविचिन्त्यसंसारविमुखप्रज्ञो मुक्ति वनिताश्लेषसुखलम्पटः सिंह इव गिरिकन्दराया निजप्रासादाद्धिर्निगत्य धर्मघाषस्य साधोरुपकण्ठं प्रवज्याम ग्रहीतु, स च महात्मा शरीरंऽपि निःस्पृहो यथोक्त भिक्षाग्रहणादिविधिसंवी संयमानुष्ठानपरायणः स्वाध्यायभावितान्त - करणो दीर्घकालं संयममनुपाल्यजातप्रपतनुकर्मासमुच्छलितदुर्निर्वार्यवीर्यप्रसरःक्षपकश्रेणिमारह्यघातिकर्मचतुष्टयं समूलघातं हत्वा, केवलज्ञानलक्ष्मीमासादितवानं, ततः कालक्रमेम सिद्ध इति । उक्त मेषणाद्वारं, संयोजनादीनिद्वाराणि वक्तयानि तानि ग्रासैषनाख्पाणीति प्रथमतो ग्रासैषणाया निक्षेपमाह
मू. (६७१)
नाणं ठवणा दविए भावे घासेसणा मुणेयव्वा । coवे मच्छाहरणं भावमि य होइ पंचविहा ॥
वृ. ग्रासैषणा चतुर्द्धा तद्यथा नामग्रासैषणा स्थापनाग्रासैषणा 'द्रव्ये' द्रव्यविषया ग्रासैषणा 'भावे'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436