Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 340
________________ मूल- ३४८ दिनियन्त्रणपुरस्सरा द्रष्टव्याः, 'लोकोत्तरिकाः ' लोकोत्तरप्रामित्यविषयाः पुनरिमेऽन्ये दोषाः, तानेवाहमइलिय फालिय खोसिय हियनट्टे वावि अन्न मग्गते । अवि सुंदरेवि दिन्ने दुक्कररोई कलहमाई ॥ मू. (३४९) वृ. इह द्विधा लोकोत्तरं प्रामित्यं - कोऽपि कस्यापि सत्कमेवं वस्त्रादिगृह्णाति यथा कियद्दिनानि परिभुज्य पुनरपितेसमर्पयिष्यामि, कोऽपिपुनरेवम्-एतावद्दिनानामुपरितवैतत्सदृशमपरं वस्त्रादिदास्यामि, तत्र प्रथमे प्रकारे 'मलिनिते' शरीरादिमलेन क्लेदिते यदिवा पाटितेऽथवा 'खोसिते' जीर्णप्राये कृते यदिवा चौरादिना हृते यद्वा- क्वापि मार्गपतिते कलहादयो दोषाः । द्वितीये च प्रकारेऽन्यद्वस्त्रादिकं याचमानो याचमानस्य 'अपिः ' सम्भावनायां 'सुन्दरेऽपि' पूर्वभुक्ताद्वस्त्रादेर्विशिष्टतरेऽपि दत्ते कोऽपि दुष्कररुचिर्भवति, महता कष्टेन तस्य रुचिरापादयितुं शक्यते, ततस्तमधिकृत्य कलहादयो दोषाः सम्भवन्ति, तस्माल्लोकोत्तरमपि प्रामित्यं न कर्त्तव्यम् । अत्रैवापवादमाह मू. (३५० ) ३३७ . उच्चत्ताए दानं दुल्लभ खग्गूड अलस पामिच्चे। पिय गुरुस पासे वे सो देह मा कलहो । वृ . इह दुर्लभे वस्त्रादौ सीदतः साधोर्यदि वस्त्रादिकमपरेण साधुना दातुमिष्यते तर्हि तस्य 'उच्चतया' मुधिकतया दानं कर्त्तव्यं, न प्रामित्यकरणेन, तथा यः 'खग्गूडः' कुटिलो वैयावृत्यादौ न सम्यग् वर्त्तते योऽपि चालसः तौदुर्लभवस्त्रादिदानप्रलोभनेनापिवैयानृत्यंकार्येते, ततस्तद्विपयंप्रामित्यंसम्भवति, तत्रापितद्दीयमानं वस्त्रादिकं दायको गुरोः पार्श्वे स्थापयेत्, न स्वयं दद्यात्, ततः स गुरुर्ददाति, मा भूदन्यथा तयोः परस्परं कलह इतिकृत्वा ॥ उक्तं प्रामित्यद्वारम्, अधुना परावर्त्तितद्वारमभिधित्सुराह मू. (३५१) परियट्टियंपि दुविहं लोइय लोगुत्तरं समासेणं । एक्वेक्कंपि अ दुविहं तद्दव्वे अन्नदव्वे य ॥ वृ. 'परिवर्तितमपि' उक्त शब्दार्थं 'समासेन' सङ्क्षेपेणद्विविधं, तद्यथा-लौकिकलोकोत्तरंच, एकैकमपि द्विविधं, तद्यथा लौकिक लोकोत्तरं च, एकैकमिपि द्विविधं, यद्यथा- 'तद्रव्ये' तद्रव्यविषयम् 'अन्यद्रव्ये' `अन्यद्रव्यविषयं च, तत्र तद्रव्यविषयं यथा कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धि घृतं गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूरं समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकम्, एवं लोकोत्तरमपि भावनीया सम्प्रति लौकिकस्योदाहरणं गाथात्रयेणाह - मू. (३५२) मू. (३५३) मू. (३५४) • इयरोऽविय पंतावे निसि ओसवियाण तेसि दिक्खा या । तम्हा उ न घेत्तव्वं कइ वा जे ओसमेहिंति ।! वृ. वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रो, यद्यथा-क्षेमङ्करो 'देवदत्तश्च, लक्ष्मीनामा च दुहिता, तत्रैव वसन्तपुरे चिलको नाम श्रेष्ठी, सुन्दरी नाम तस्यमहेला, तस्याधनदत्तः पुत्रो बन्धुमती दुहिता, तत्र क्षेमङ्करः समितसूरीणामुपकण्ठे दीक्षां गृहीतवान, देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता, अन्यदा च कर्मवशतो धनदत्तस्य दारिद्रयमुपतस्थे, ततः स प्रायः कोद्रवकूरं भुङ्क्ते, 26 22 Jain Education International अवरोप्परसज्झिलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्टा परियट्टण संखडे बोही ॥ अनुकंप भगिनिगेहे दरिह परियट्टणा य कूरस्स । पुच्छा कोद्दवकूरे मच्छर नाइक्ख पंतावे ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436