Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 357
________________ ३५४ पिण्डनिर्युक्तिः- मूलसूत्रं दुत्पाट्य शेषभक्त स्योपरि निक्षिप्तमपि भण्यत ततो विशेषणान्तरमाह - पृथकृते स्थाल्या बहिर्निष्काशित शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया' उद्देशन न तु सिक्थादिपरिगणनेन यदि तावन्मात्रं कार्पटिकादिभ्यो दत्तं स्यात् ततः शेषं कल्पते । तदेवमभिहितमध्यवपूरकद्वारं, तदभिधानाच्चाभिहिताः षोडशाप्युद्गमदोषाः । सम्प्रत्येतेषामेव विभागमाह मू. (४२२) एसो सोलसभेओ, दुहा कीरड़ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥ वृ. एष षोडशभेद उद्गमः सामान्येन द्विधा, तद्यथा- 'एको विशोधिकोटिः' एको भेदो विशोधिकोटिरूपः अपरा च ‘अविशोधिः’‘अविशोधिकोटि:' अविशोधिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टमक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः । मू. (४२३) आहाकम्मुद्देसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झायरए य चरिमदुगं ॥ वृ. आधाकर्मसप्रभेदम्. १ 'औद्देशिकस्य' विभागौद्देशिकस्यान्त्यभेदत्रयं २ तथा 'पृतिः ' भक्त पानरूपा ३ ‘मिश्रजातं ' पाषण्डिगृहमिश्रसाधुगृहमिश्ररूपं ४ बादरा प्राभृतिका ५ अध्यवपूरकस्य च 'चरमद्विकं' स्वगृहपाषण्डिमिश्रस्वगृहसाधुमिश्ररूपम् ६, एते उद्गमदोषा अविशोधिकोटिः । अनया चाविशोधिकोट्या अवयवेन स्पृष्टं शुद्धं भक्तं यद्दोषदुष्टं भवति तं दोवमाह मू. (४२४) उग्गमकोडी अवयव लेवालेवे य अकयए कप्पे । कंजियआयामगचाउलोयसंसट्टपूईओ ॥ वृ. ‘उद्गमकोट्याः उद्गमदोषरूपाया अविशोधिकोट्या 'अवयवेन' शुष्कसिक्थादिना तथा 'लेपेन' तक्रादिना 'अलेपेन' वल्लचणकादिना संस्पृष्टंयदृभक्तं तस्मिन्नुज्झितेऽपियत् अकृते कल्पे - अकृतकल्पये इत्यर्थः पात्रे यत्पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यम् । इह कचिन्मतिदौर्वल्यादित्यं विकल्पेत-यथा यदेव साधूनाधाय निर्वर्त्तितं तदेवैकमोदनमाघाकर्म भवति, न शेषमवश्रावणकाञ्जिकादि, ततस्तत्संस्पृष्टं पूतिर्न भवतीति ततस्तदभिप्रायनिराकरणार्थमाह- 'कंजि' इत्यादि, इह साध्वर्थमोदनेऽभिनिर्वर्त्त्यमाने यत्तत्सत्कं काञ्जिकादि तदप्याघाकर्मैव, तदवयवरूपत्वात्, ततः काञ्जिकेनाऽऽयामेन - अवश्रावणेन चाउलोदकेन च यत्संस्पृष्टं तदपि पूतिर्भवति । एतदेव रूपकत्रयेण भाष्यकृद्याख्यानयति मू. (४२५) [भा. २८] मू. (४२६) सुक्केणऽवि जं छिक्कं तु असुइणा धावए जहा लोए । इह सुक्कणऽवि छिक्कं धोवड़ कंमेण भाणं तु ? ॥ लेवालेवत्ति जं वृत्तं, जंपि दव्वमलेवडं । तंपि घेत्तुं न कप्पंति, तक्काड़ किमु लेवर्ड ? ॥ आहाय जं. कीरइ तं तु कम्मं, वज्जेहिही आयणमेगमेव । सोवीर आयामग चाउलो वा, कम्मंति तो तग्गहणं करेंति ॥ [भा. २९] मू. (४२७) [भा. ३०] वृ. सुगमं नवरमाद्यरूपकेण अवयव' इतिपदंव्याख्यातं, द्वितीयरूपकण लेवालेव' इति, तत्रायं भावार्थ:वल्लचनकादिद्रव्यमलेपकृत्यदिप्रथममनाभोगादिकारणतः पात्रे गृहीत्वापश्चात्कथमपिपरिज्ञाते परित्यज्य पात्रंकल्पयन्ति-कल्पत्रयेणप्रक्षालयन्ति, किं पुनस्तक्रादिकं लेपकृगृहीत्वा तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्त्तव्यम् इति परिज्ञापनार्थं लेपालेप इत्युक्तं तथा यंदेव मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधा कर्म www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436