Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 382
________________ मूलं - ५३२ वृ. विद्यामन्त्रयोः प्ररूपणा कर्तव्या, सा चैव ससाधना स्त्रीरूपदेवताधिष्ठाता वाऽक्षरपद्धतिर्विद्या, असाधना पुरुषरूपदेवताधिष्ठाता वा मन्त्रः, 'तत्थ 'त्ति तत्र विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्रे शिरोवेदनायां मुरण्डेन राज्ञोपलक्षितः पादलिप्तसूरिः । तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयतिपरिपिंडमुल्लावो अड़पंतो भिक्खुवासओ दावे । जइ इच्छह अनुजाणह धवगुलवत्थाणि दावेमि ॥ तुं विज्जामंतण किं देमि ? धयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केम मुट्टोमि ? ॥ मू. (५३३) मू. (५३४) वृ. गन्धसमृद्धे नगरे धनदेवो नाम भिक्षूपासकः ससाधुभ्यो भिक्षार्थं गृहे समागतेभ्योनकिञ्चिदपि ददाति, अन्यदा च तरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापः, तत्रैकेनोक्तम्- अतिप्रान्तोऽयं धनदेवः, संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं दायपति, ततस्तेषां मध्ये केनाप्यूचेयदीच्छय ततोऽनुजानीध्वयं मां येनाहं दापयामि, तैरनुज्ञातः, ततो गतस्तस्य गृहमभिमन्त्रितो विद्यया, ततो ब्रूते साधून- किं प्रयच्छामि ?, तैरुक्त- घृतगुडस्त्रादि, ततो दापितं तेन संयतेभ्यः प्रचुरं धृतगुदिकं, तदन्तरं च प्रतिसंहृता क्षुल्लकेन विद्या, जातः स्वयभावस्थो भिक्षूपासकः, ततो यावन्निमालयति धृतादिकं तावत्स्तोकं पश्यति, ततः केन मे हृतं धृतादि य केनाहं मुषितोऽस्मि ? केनाहं मुषितोऽस्मि ? इति विलपितुं प्रवृत्तः, ततः परिजनेनोक्तं पुष्माभिरेव दापितं संयतेभ्यः तक्तिं युवमेवं भणय ?, ततो मौनमवलम्ब्य स्थितः । पडिविज्जं थंमणाई सो वा अन्न व से करिज्नाहि । मू. (५३५) पावाजीवीमाई कम्मणगारी य गहणाई || वृ. यो विद्याऽभिमन्त्रितः स च स्वभावस्थो जातः सन् कदाचित्प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः स् प्रतिविद्यया ' स्तम्भनादि' स्तम्भनो चाटनमारणादि कुर्यात्, तथा 'पापाजीविन: ' पापेन - विद्यादिना परद्रोहकरणरूपेण जीवनशीला मायिनः शठा इति लोके जुगुप्सा, तथा कार्मणकारिण हमे इति राजकु ग्रहणाकर्षणेवषपरित्याजनकदर्थनमारणादि । सम्प्रति मन्त्रविषये मुरुण्डराजो पलक्षितपादलिप्तोदाहरणमाहमू. (५३६) जह जह पसिणी जानुगमि पालित्तओ भाडे । तह तह सीसे वियणा पणस्सइ मुरुंडरायस्स ।। वृ. प्रतिष्ठानपुरे मुरुण्डो नाम राजा, पादलिप्ता नाम सूरयः, अन्यदा च मुरुण्डराजस्य बभूवातिशयेन शिरोवेदना, न केनापि विद्यामन्त्रादिभिरुपशमयितुं शक्यते, तत आकारिता राज्ञा पादलिप्ताः सूरयः, कृतोस्तेषामागतानां महती प्रतिपत्तिः कथितं चाकारणकारणं शिरोवेदना, ततो यथा लोको न जानीते तथा मन्त्रं ध्यायदिभः प्रावरममधे निजदक्षिणजानुशिरसिपार्श्वती निजदक्षिणहस्तप्रदेशिनी यथा यथा भ्राम्यते तथा तथा राज्ञः शिरांवेदना अपगच्छति, ततः कर्मणापगता सकलाऽपि शिरोवेदना, जातोऽतिशयेन सूरीणामुपासकः, ततां विपुलं भक्त पानादिकं तेभ्यो दत्तवान, । अत्र दोषानाह मू. (५३७) पडिमंतर्थमणाई सो वा अन्ना व से करिज्जाहि । पावाजीवियमाई कम्मणगारी भवेबीयं ॥ वृ. इह कथानके न कोऽपि दोषो जातः, पादिलिप्तसूरीणां मुरुण्डराजं प्रत्युपकारित्वात, केवलं प्रागुक्ताविद्याकथानक इव मन्त्रेऽपि प्रयुज्यमाने सम्भाव्यन्ते दोषाः ततस्तदुपदर्शनं क्रियते, तत्रेयं गाथा प्रागिव व्याख्येया, नवरं भवे वीयं' तिपुष्टमालम्बनमधिकृत्य द्वितीयम् - अपवादपदं भवेतं, सङ्घादिप्रयोजने मन्त्रोऽपि Jain Education International ३७९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436