Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३९४
पिण्डनिर्युक्तिः- मूलसूत्रं
सम्प्रति द्वितीयतृतीयचतुर्भङ्गीसत्कं तृतीयं तृतीयं भङ्गमाश्रित्य येषु वस्तुषु मात्रकस्थितमदेयं वस्तु संहरति तान्युपदर्शयति
मू. (६०८)
भूमाइएस तं पुन साहरण होइ छसुवि काए । तं हा अचित्तं साहरणं तत्थ चउभंगी ॥
वृ. तत्पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणम्, भूम्यादिकेषु' सचित्तपृथिवीकायादिषु षट्सु जीवनिकायेषु भवति' जायंते, तत्र चानन्तरोक्त मनन्तरपरम्परामार्गणमवधार्यम्, अनन्तरोक्त एव च कल्प्याकल्प्यविधिरवाजरणीयः, तथायत्संहरणं द्विधाऽपि आधारापेक्षया संहियमाणापेक्षयाच अचित्तमचित्ते यत्संहियते इत्यर्थः, तत्र चतुर्भङ्गी' चत्वारो भङ्गाः । तानेवाह
मू. (६०९)
सुक्के सुक्कं पढमो सुक्के उल्लं तु बिड़यओ भंगो । उल्ले सुक्कं तड़ओ उल्ले उल्लं चउत्थी उ॥
वृ.शुष्क शुष्कं संयतमितिप्रथमा भङ्गः, शुष्के आर्द्रमिति द्वितीयः, आर्द्रशुष्कमितितृतीयः, आर्द्र आर्द्रमिति चतुर्थ:
मू. (६१० )
एक्केक्क्रे चउभंगो सुक्काईएस चउसु भंगेसु । थोवे थोवं थोवे बहुं च विवरीय दो अन्ने ॥
तद्यथा-:
वृ. (शुष्कादिषु) शुष्के, शुष्कं संहृतमित्यादिषु चतुर्ष्वपि भङ्गेषु मध्ये एकैकस्मिन् भङ्गे चतुर्भङ्गी, तद्यथास्तोके शुष्के स्तोकं शुष्कं स्तोके शुष्के वहु शुष्कं विवरीय दो अन्ने' त्ति एतद्विपरीतौ द्वौ अन्यौ भङ्गौ द्रष्टव्यौ, - शुष्के बहुते स्तोकं पुष्क, बहुके शुष्के बहु शुष्कमिति, एवं शुष्के आर्द्रमित्यादिष्वपि त्रिषुभङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुभङ्गी प्रत्येकं भावनीया, सर्वसङ्गयया षोडशः भङ्गाः । अत्र कल्प्याकल्प्यविधिमाहमू. (६११) जत्थ उथोवं सुक्के उल्लं छुहड़ तं तब्भं (गेज्झ ) ।
जड़ तं तु समुक्खेउं थोवाभारं दलइ अन्नं ।।
वृ. यत्र तु भङ्गे स्तोके तुशब्दाद्बहुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते एव, अथवा शुष्के आर्द्र वाशब्दादार्द्रे शुष्कमा आर्द्रं वा तदा तद्बाह्यं, न शेषं, कुतः ? इत्याह- 'जई' इत्यादि, यदि तदादेयं वस्तु ‘स्तोकाभारं’बहुभाररहितमन्यत्र समुत्क्षिप्यान्यद्ददाति तर्हितत्कल्पतेनान्यथा । बहुकंचसंहियमाणं बहुभारं भवति, ततः शुष्के शुष्कमित्यादिषु चतुर्ष्वपि भङ्गेषु प्रत्येकं स्तोके स्तोकं बहुके स्तोकमिति प्रथमतृतीयभङ्गा कल्पेते, न द्वितीयचतुर्थो । तत्र दोषानाह
मू. (६१२)
उक्खेवे निक्खिवे महल्लभाणंमि लुद्ध वह डाहो । अचियतं वोच्छेओ छक्कायवही य गुरुमत्ते ॥
वृ. महतिभाजनः प्रभूतादेयवस्तुभारयुक्तं गुरुमात्रकुरूपे' उत्क्षेप' उत्पाव्यमाने निक्षेप' निक्षिप्यमाणे दात्र्याः पीडा भवति, तथा लुब्धोऽयं न परपीडां गणयतीति निन्दा, तथा तद्भाजनं कदाचिदुष्णभक्त दिभृतं स्यात्ततस्तस्योत्पाटने कथमपि तस्य 'वधे' विनाशे दात्र्याः साधोर्वा दाहः स्यात. तथा मुण्डस्य भिक्षादानायोत्पाटितमिदं भग्नमित्येवं वेदवशतः कदाचिदप्रीतिरुपजायते, ततस्तव्यान्यद्रव्यव्यवच्छेदः, तथा महति भाजने भग्रे तन्मध्यस्थिते भक्तादौ सर्वतो विसर्पति भूम्यादिस्थितपृथिवीकायादिजन्तुविनाशः । यत एवमेते दोषाः ततः स्तोके बहुकं बहुके बहुकमिति द्वौ भङ्गौ सर्वत्रापि न कल्पेते । एतदेवाह
मू. (६१३)
थावे थोवं छूढं सुक्के उल्लं तु तं तु आइन्नं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436