Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 380
________________ मूलं-५१९ ३७७ वदति, एवं च सकलमपि दिनं भ्रान्त्वा रात्रों तथैव परिभ्रमन. प्रहरद्रयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच, सोऽपि च श्रावकोऽतीव गातीर्थो दक्षच, ततस्तेन परिभावयामासे- नूनमेतेन क्वापि न लब्धाः सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं, ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भूतं भाजनमुपढौकितं, भगवन् । प्रतिगृहाण सर्वानप्येतान् सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं भगवन् । अद्य मया पूर्वार्द्धः प्रत्याख्यातः स किं पूर्णो न वा । इति ततः सुव्रत उपयोगमूद्धर्व दत्तवान् पश्यति गगनमण्डलमनेकतारानिकपरिकरितमर्द्धरात्रोपलक्षितं. ततो ज्ञातवानात्मनो भ्रमं, हा । मूढेन मया विरूपमाचरितं, धिग् मे लोभाभिभूतस्य जीवितं, भोः श्रावकः । सम्यक् कृतं त्वया यदहंसिहकेसरप्रदानपूर्वं पूर्वार्द्धप्रत्याख्यानपरिपूणताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तव चोदना, तत आत्मानं निन्दन् विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्यालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि धातिकर्माण्युवोष, ततः प्रादुर्भूतं तस्केवलज्ञानम् । सूत्रं सुगमम् । दुविहो उ संथवो खलु संबंधीवयणसंथवो चेव । एक्क्कोवि यदुविहो पुव्विं पच्छाय नायव्वो । मू. (५२० ) वृ. द्विविधः खलु संस्तवः, तद्यथा- परिचयरूपः श्लाधारूपच, तत्र परिचयरूपः सम्बन्धिसंस्तवः श्लाधारूपोवचनसंस्तवः। तत्रसम्बन्धिनो मात्रादय- श्वश्र्वादयश्रतद्रूपतयायः संस्तव - ससम्बन्धिसंस्तव, वचनं-श्लाधातद्वपोयःसंस्तव- सवचनसंस्तवः, एकैकोऽपि चद्विधा, तद्यथा - 'पुव्विंपच्छार' त्तिपूर्वसंस्तवः पथात्संस्तवश्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह मू. (५२३) मायपि पव्वसंथव सासूसुसराइयाण पञ्छा उ । गिहि संथवसंबंध करेइ च पञ्छा वा ॥ वृ. मातापित्रादिरूपतयाः यः संस्तवः - परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तव स पश्रात्संस्तव, श्वश्रूवादीनां पश्चात्कालभावित्वात् तंत्र साधुक्षिर्थ प्रविष्टः सन्गृहिभिःसह‘संस्तवसम्बन्धं' परिचयघटनं 'पूर्व' पूर्वकालभाविमात्रादिरूपतया 'पथाद्वा' पचात्कालभावि श्वश्रूवादिरूपतया वा करोति । कथम् ? इत्याह मू. (५२४) आयवयं च परवयं नाउं संबंधए तयनुरूवं । माया एरिसिया ससा व ध्या न नत्ताई ॥ वृ. इह साधुर्भिक्षार्थं गृहे प्रविष्टः सन्नाहारलम्पटताऽऽत्मवयः परवयव ज्ञात्वा 'तदनुरूपं' वयोऽनुरूपं सम्बध्नाति, यदिसावयोवृद्धा चमध्यमवयाः ततो ममेदशी माताऽभूदितिब्रूते, यदिपुनः सोऽपिमध्यमवयास्तत ईदृशी मम स्वसाऽभृदिति वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्प्रत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह मू. (५२५) अदि टिट्टिपण्हव पुञ्छा कहणं ममरिसी जननी । थणखेवा संबंधो विहवासुण्हाइदानं च ॥ वृ. कोऽपि साधुर्भिक्षार्थी प्रविष्टः काचिन्निजमातसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेना त्या दृष्टिप्रस्नम् - ईषदश्रुविमोचनं करोति, ततः ‘पुच्छ' त्ति सा स्त्री पृच्छति, किं त्वमधृतो दृश्यसे ? इति ततः साधोः कथनं-मम' ईदृशी त्वत्सदृशीजनन्यभूदिति । अत्रदोषानाह- ततस्तया मातृत्वप्रकटनार्थं साधुमुखे स्तनप्रक्षेपःक्रियते, परस्परंचसम्बन्धःस्नेहबुद्धिरूपो जायते, तथाविधवास्नुषादिदानं च करोति- मृतपुत्रस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436