Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३८०
पिण्डनिर्युक्तिः- मूलसूत्रं
प्रयोक्तव्य इति भावार्थः, एतव्व विद्यायामपि द्रष्टव्यम् । उक्तं विद्यामन्त्राख्यं द्वारद्वयम्, अथ चूर्णयोगः चुने अंतद्वाणे चाणक्के पायलेवणे जोगे । मूल विवाहो दो दंडिणी उ आयाण परिसाडे ॥
मू. (५३८)
वृ. चूर्णेऽन्तर्द्धान- लोकेदृष्टिपथतिरोधानकारकेदृष्टान्ते चाणक्यविदितौ द्वौ क्षुलकौ पादे - पादलयेनरूपे योगे दृष्टान्ताः समितसूरयः, तथा 'मूले' मूलकर्मणि अक्षतयोनिक्षतयोनिकरणरूपे युवतिद्वयं दृष्टान्तः, विवाहविषयेऽपि मूलकर्मणि युवतिद्वयमुदाहरणं, तथा गर्भाधानपरिसाटरूपे मूलकर्मणि द्वे 'दण्डिन्यौ' नृपपत्न्यावुदाहरणं । तत्र ‘चुन्ने अंतद्वाणे चाणक्के' इत्यवयवं भाष्यकृद्गाथात्रयेण व्याख्यानयतिजंघाहीना ओमे कुसुमपुरे सिस्सजोगरहकरणं । खुड्ड दुगंजण सुणणा गमनं देसंतरे सरणं ॥
मू. (५३९)
[भा. ३५ ]
भिक्खे परिहार्यते रामं तेसि ओमि दिताणं । सहभुज्ज चंदगुत्ते ओमायरियाए दोबल्लं ॥ चाणक्क पुच्छ इट्टाल चुण्णदारं पिहित्तु घूमे य । दट्टं कुच्छपसंसा थेरसमीवे उवालंभो ॥
[भा. ३६ ]
मू. (५४१)
[भा. ३७]
वृ. कुसुमपुरे नगरे चन्द्रगुप्ते नाम राजा, तस्य मन्त्री चाणक्यः, तत्रचजङ्घावलपरिहीणाः सुस्थिताभिधाः सूरयः, अन्यदा च तत्र दुर्भिक्षमपप्तत्, ततः सूरिभिश्रिन्तितम् - अमुं समृद्राभिधानं शिष्य सूरिपदे संस्थाप्य सकलगच्छसमेतंसुभिक्षेकापिप्रेषयामि, ततस्तस्मैयोनिप्राभृतमेकान्तेव्याख्यातुमारब्धं, तत्रचक्षुलुकद्वयेन कथमप्पदृश्यीकरणनिबन्धनमञ्जनं व्याख्यायमानं शुश्रुवे, यथा अनेनाञ्जनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिप्राभृतव्याख्यापनसमर्थनानन्तरंचसमृद्धाभिधोऽन्तेवासीसूरिपेदस्थापित-, मुत्कलितश्चसकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्तिरे सूरयः, कतिपयदिनानन्तरं चाऽऽचार्यस्नेहतस्त् क्षुल्लुकद्रयमाचार्यसमीपे समाजगमाम, आचार्या अपियत्किमपिभिक्षयालभन्तेतत्समंविरिच्य (परिभाव्य) क्षुल्लुकद्वयेन सह भुञ्जते, तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत्, ततचिन्तितं क्षुलकद्वयेन - अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुआवहे इति, तथैव कृतं, ततश्चन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता, चाणक्येन पृष्टं किं ते शरीरदौर्बल्यं ?, स प्राह- परिपूर्णाहारलाभतः, ततश्राणक्येनचिन्तियम्-एतावत्याहारे परिवेष्पमाणे कथमाहारस्यापरिपूर्णता ?, तन्नूनमञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह भुङ्केत, ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्णो विकीणो. दृष्टानि मनुष्यपदानि ततो निश्रिक्ये नून दौ पुरुषावञ्जनसिद्धावायात- ततो द्वारं पिधाय मध्येऽतिबहलो घूमो निष्पादितः धूमबाधितनयनयोच तयरी अनंनयनाश्रुभिः सहविगलितं, ततो बभूवतुः प्रत्यक्षौ च प्रशंसितो राजा यथा धन्यस्त्वमसि यो बालब्रह्मचारिभिर्यतिभिः पवित्रीकृत इति, ततो वन्दिता मुत्कलिता द्वावपि क्षुल्लको, चाणक्येनं रजन्यां वसतावागत्य सूरय उपालब्धाः पथैती पुष्ममक्षुल्लकावुड्डाहं कुरुतः ?, ततसूरिभिःसएवोमालब्धः-यया त्वेमवात्रापराधकारी?, यो द्वयोरपिक्षुलिकयोर्ननिर्वाहंचिन्तयसि ?, सप्राहभगवन् । एवमेतदिति पादयोर्निपत्य सुरयस्तेन क्षामिता - कृता सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोगं चिन्ता । सूत्रं सुगमम् । अत्रातिदेशतः साक्षाच्च दोषानाह
!
;
मू. (५४२)
जे विज्जमंतदोसा ते च्चिय वसिकरणमाड़चुन्नेहिं । एगमनेगपओसं कुज्जा पत्थारओ वावि ॥
For Private & Personal Use Only
मू. (५४०)
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436