________________
मूलं-५१९
३७७
वदति, एवं च सकलमपि दिनं भ्रान्त्वा रात्रों तथैव परिभ्रमन. प्रहरद्रयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच, सोऽपि च श्रावकोऽतीव गातीर्थो दक्षच, ततस्तेन परिभावयामासे- नूनमेतेन क्वापि न लब्धाः सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं, ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भूतं भाजनमुपढौकितं, भगवन् । प्रतिगृहाण सर्वानप्येतान् सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं भगवन् । अद्य मया पूर्वार्द्धः प्रत्याख्यातः स किं पूर्णो न वा । इति ततः सुव्रत उपयोगमूद्धर्व दत्तवान् पश्यति गगनमण्डलमनेकतारानिकपरिकरितमर्द्धरात्रोपलक्षितं. ततो ज्ञातवानात्मनो भ्रमं, हा । मूढेन मया विरूपमाचरितं, धिग् मे लोभाभिभूतस्य जीवितं, भोः श्रावकः । सम्यक् कृतं त्वया यदहंसिहकेसरप्रदानपूर्वं पूर्वार्द्धप्रत्याख्यानपरिपूणताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तव चोदना, तत आत्मानं निन्दन् विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्यालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि धातिकर्माण्युवोष, ततः प्रादुर्भूतं तस्केवलज्ञानम् । सूत्रं सुगमम् । दुविहो उ संथवो खलु संबंधीवयणसंथवो चेव । एक्क्कोवि यदुविहो पुव्विं पच्छाय नायव्वो ।
मू. (५२० )
वृ. द्विविधः खलु संस्तवः, तद्यथा- परिचयरूपः श्लाधारूपच, तत्र परिचयरूपः सम्बन्धिसंस्तवः श्लाधारूपोवचनसंस्तवः। तत्रसम्बन्धिनो मात्रादय- श्वश्र्वादयश्रतद्रूपतयायः संस्तव - ससम्बन्धिसंस्तव, वचनं-श्लाधातद्वपोयःसंस्तव- सवचनसंस्तवः, एकैकोऽपि चद्विधा, तद्यथा - 'पुव्विंपच्छार' त्तिपूर्वसंस्तवः पथात्संस्तवश्च । तत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाह
मू. (५२३)
मायपि पव्वसंथव सासूसुसराइयाण पञ्छा उ । गिहि संथवसंबंध करेइ च पञ्छा वा ॥
वृ. मातापित्रादिरूपतयाः यः संस्तवः - परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तव स पश्रात्संस्तव, श्वश्रूवादीनां पश्चात्कालभावित्वात् तंत्र साधुक्षिर्थ प्रविष्टः सन्गृहिभिःसह‘संस्तवसम्बन्धं' परिचयघटनं 'पूर्व' पूर्वकालभाविमात्रादिरूपतया 'पथाद्वा' पचात्कालभावि श्वश्रूवादिरूपतया वा करोति । कथम् ? इत्याह
मू. (५२४)
आयवयं च परवयं नाउं संबंधए तयनुरूवं ।
माया एरिसिया ससा व ध्या न नत्ताई ॥
वृ. इह साधुर्भिक्षार्थं गृहे प्रविष्टः सन्नाहारलम्पटताऽऽत्मवयः परवयव ज्ञात्वा 'तदनुरूपं' वयोऽनुरूपं सम्बध्नाति, यदिसावयोवृद्धा चमध्यमवयाः ततो ममेदशी माताऽभूदितिब्रूते, यदिपुनः सोऽपिमध्यमवयास्तत ईदृशी मम स्वसाऽभृदिति वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्प्रत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह
मू. (५२५)
अदि टिट्टिपण्हव पुञ्छा कहणं ममरिसी जननी । थणखेवा संबंधो विहवासुण्हाइदानं च ॥
वृ. कोऽपि साधुर्भिक्षार्थी प्रविष्टः काचिन्निजमातसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेना त्या दृष्टिप्रस्नम् - ईषदश्रुविमोचनं करोति, ततः ‘पुच्छ' त्ति सा स्त्री पृच्छति, किं त्वमधृतो दृश्यसे ? इति ततः साधोः कथनं-मम' ईदृशी त्वत्सदृशीजनन्यभूदिति । अत्रदोषानाह- ततस्तया मातृत्वप्रकटनार्थं साधुमुखे स्तनप्रक्षेपःक्रियते, परस्परंचसम्बन्धःस्नेहबुद्धिरूपो जायते, तथाविधवास्नुषादिदानं च करोति- मृतपुत्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org