________________
पिण्डनियुक्तिः-मूलसूत्रं शक्नुयस्तर्हि निवर्तयथांनोचेत्प्रजीवनयावचध्वमिति.ततस्ताःससम्भ्रमंपरिहितनिवसनाः पृष्ठतःप्रधाव्य गच्छतः पादयोलना, वदन्तिच- हा स्वामिन् क्षमस्वैकमपराधं निवर्तस्व माऽस्माननुरक्ताः परिहर, एवमुक्तोऽपि स मनागपि न चेतासि रज्यते, ततस्ताभ्यामवाचि स्वामिन् । यद्येवं तर्हि प्रजीवनं देहि, येन पश्चादपि युष्मत्प्रसादेन जीवामः, तत एत्रं भवत्विति दाक्षिण्यवशादनुमत्य प्रतिनिवृत्तः,
ततःकृतंभरतचक्रवर्तिनश्चरितप्रकाशकंराष्टपालनामनाटकं,तता विज्ञप्तो विश्वकर्मणासिंहरथोराजादेव । आषाढभूतिना राष्ट्रपालं नाम नाटकं विरचित, तत्सम्प्रति नर्त्यतामिति, परं तत्र राजपुत्रपञ्चशतैराभरणविभूषितैः प्रयोजनं, ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानां. तानि यथापथमाषाढभूतिना शिक्षितानि, ततः प्रारब्धं नाटकं निर्तितुं, तत्राऽऽषाढभूतिरात्मनेक्ष्वाकुवंशसम्भूतो भरतश्चकवर्ती स्थितो राजपुत्राश्च यथायोगं कृताः सामन्तादयः, तत्र च नाटके यथा भरतेन भरतं षट्खण्डं प्रसाधितं यथा चतुर्दश रत्नानिनवमहानिधयःप्राप्तायथाचाऽऽदर्शगृहेऽवस्थितस्यकेवलालोकप्रादुर्भावोयथाचपञ्चशतपरिवारेण सप्रवज्यांप्रतिन्नस्तत्सर्वमप्यभिनीयते,ततोराज्ञालोकेनचपरितुष्टेनसर्वेणापियथाशक्तिहारकुण्डलादीन्याभरणानिसुवर्णवस्त्राणिचप्रभूतानिक्षिप्तानि,ततःसर्वजनानांधर्मलाभंप्रदायपञ्चशतपरिवारआषाढभूतिर्गन्तुं प्रावर्त्तत, ततः किमेतत् ? इति राज्ञा निवारितः,
तेनोक्तं किं भरतश्चकवर्ती प्रवज्यामादाय निवृत्तः ? येनाहं निवर्ते इति यतः सपरिवारो गुरुसमीपं. वस्त्राभरणादिकंच समस्तं निजभार्याभ्यां दत्तवान. तच्च प्रजीवनकं किल तयोर्जातं. गृहीता दीक्षा, तदपिच नाटकंविश्वकर्मणाकुसुमपुरेनत्तिंतुमारब्धं,तत्रापिपञ्चशतसङ्ख्या क्षत्रियाःप्रत्रज्यां गृहीतवन्तः, ततोलोकेन चिन्तितम्-एवं क्षत्रियाः प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटकपुस्तकमग्नौ प्रवेशितं । सूत्रं सुगम, नवरं, 'रायनडगेहपवेसणं ति राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, 'त्वग्दोषी' कुष्ठी, उपसर्गःप्रव्रज्याग्रहणे निवारणं, दहनं नाटकपुस्तकस्य । अत्रेवापवादमाह-गलन्ने'त्यादि, ग्लानो-मन्दः, 'क्षपक-' मासक्षपकादि-, 'प्राधूर्णकः' स्थानान्तरादायातः, 'स्थविरः' वृद्धः आदिशब्दात्सलकार्यादिपरिग्रहः, तेषामर्थायद्वितीयमपवादपदमितिभावः, सेव्यते म्लानाद्यनिवहिमायापिण्डोऽपिग्राह्यइत्यर्थः। उक्तं मायाद्वारम् । मू. (५१९) लम्भंतंपि न गिण्हइ अन्नं अनुगंति अज्ज घेच्छामि।
भद्दरसंतिव काउंगिण्हइ खद्धं सिणिद्वाई॥ वृ.अद्याहमुमकंसिंहकेसरादिकंग्रहीष्यामीतिबुद्धयाऽन्यद्वल्लुवनकादिकंलभ्यमानमपियन्नगृह्याति, किन्तु तेदेवेप्सितं, स लोभपिण्डः । अथवा पूर्व तथाविधबुद्दयभावेऽपि यथाभावं लभ्यमानं खद्वं' प्रचुर 'स्निग्धादि'लपनश्रीप्रभृतिकंभद्रकरसमितिकृत्वायदगृह्णातिसलोभपिण्डः। तत्रप्रथमभेदमाश्रित्योदाहरणं· मू. (५२०) चंपा लणमि घिच्छामि मोयए तवि मीहकेसरए।
पडिसह धम्मलाभं काऊणं साहकसरए॥ मू. (५२१) सङ्कवरत्तकेसरभायण भरणं च पुच्छ पुरिमढ़े।
उवओग संत चोयण साहुत्ति विगिंचणे नाणं ।। वृ. चम्पा नाम पुरी. तत्र सुव्रतो नाम साधुः, अन्यदा च तत्र मोदकोत्सवः समजानि. तस्मिंश्च दिने सुव्रतोऽचिन्तयत-अद्य मया मोदका एव ग्रहीतव्याः. तेऽपि सिंहकसरकाः, तत इत्थं सम्पधार्य भिक्षां प्रविष्टो लोलुपतयाऽन्यत्पतिषेधेन सिंहकेसरमोदकाँश्चला भमानस्तावत्परिभणति स्म यावत्सार्द्ध प्रहरद्वयं, ततो न लब्धा मादका इति प्रनष्टचित्तो बभूव. ततो गृहद्वारे प्रविशन वक्तव्यस्य धर्मलाभस्य स्थाने सिंहकेसरा इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org