________________
३७५
पात्रभरणप्रमाणैमंदिकैःप्रतिलाभितः, भणितश्च सादरंवृत्तान्तं विश्वकर्म्मा निजकुटुम्बस्य, भणिते च दुहितरी यथा सादरं दानस्नेहदर्शनादिना तथा कर्त्तव्यो यथा युष्माकमायत्तो भवति प्रतिदिवसमायाति च भिक्षार्थमाषाढभूतिः, दुहितरौ च तं तथैवोपचरतः, ततोऽत्यन्तमनुरक्त मवगभ्य रहसि भणितो - यथा वयमत्यन्तं तवानुरुक्ताःततोऽस्मान् परिणीयत्वं परिभुङ्गक्ष्वेति, अत्रान्तरे चतस्यादयमियाय चारित्रावरणं कर्म्मगलितो गुरूपदेशःप्राणेशद्विवेको दूरीभूतः कुलजात्यभिमानः, ततस्तेनोक्तम्- एवंभवतु, परमहंगुरुपादान्तिकेलिङ्गं विमुच्ये समागच्छामि, गतो गुरुसमीपं प्रणतस्तेषां पादयुगलं प्रकटितो निजाभिप्रायः, ततो गुरुभिवाचिवत्स। नेदंयुष्माद्दशां विवेकरत्नाकरणामवगाहितसकलशास्त्रार्थानामुभयलोकजुगुप्सनीयं समाचरितुमुचित्तं, तथा दीहरेसीलं परिवालिऊणं विसुएसु वच्छ। मा रमसु । को गोपयंमि बुड्डुइ ज्यहिं तरिऊण बाहाहिं ? ।। | इत्यादि, तत उवाचाषाढभूतिः- भगवन् । यथा यूयमादिशथ तथैव केवलं प्रतिकूलकर्मोदयतः प्रतिपक्षभावनारूपकवचदुर्वलतया मदनशवरेणनिरन्तरं समुस्त्रस्तमृगनयनरमणीकटाक्षविशिखोपनिपातमादधता शतज्ञो मे जर्जरीकृतं हृदयं, एवं चोक्त्वा गुरुपादान. प्रणम्य तदन्तिके रजोहरणं मुक्तवान्, ततः कथमहमभीषामनुपकृतोपकारिणामपारसंसारोदधिनिमग्नजन्तुसमुद्धरणैकचेतसां सकलजग त्परमबन्धुकल्पानां गुरूणां पृष्ठं ददामि इति पश्चात्कृतपादप्रचारो हा । कथमहं भूयोऽप्येवंविधगुरूणां चरणकमलं प्राप्स्यामि ? इति विचिन्तयन्वसतेर्विनिर्गत्यविश्वकर्मणो भवनमायातः, परिभावितस्मयसादरमनिमिष्टदृष्टया नटदु-हितृभ्यांवपुः, प्रत्यभासतसकलजगदाश्चर्यमस्यरूपं, ततोऽचिन्तयतामिमे-अहो | कौमुदीशशाङ्कमण्डलमिवास्य मनोहरकान्तिवदनं कमलदलयुगलमिव नयनयुगलं गुरुन्मत इव तुङ्गमायतं नाशानालंकुन्दमुकुलक्षेइणिरिव सुस्निग्धा दशनपद्धतिः महापुरकपाटमिव विशालमस्य मांसलं वक्षःस्थलं मृगरिपोरिव संवर्त्तितः कटिप्रदेभूःनिगूढजनानुप्रदेशंजङ्घायुगलं सुप्रतिष्ठितकनककूर्मयुगलमिव चरणयुगलं, ततो विश्वकर्माऽवोचत्महाभाग । तवाऽऽयत्ते द्वे अप्यम् कन्यके ततः स्वीक्रियेतामिति, ततः परिणीते ते द्वे अपि तेन कन्यके, भणिते चविश्वकर्मणा-योनामेतादृशीमप्यवनस्थांगतो गुरुपादान् स्मरतिसनियमादुत्तप्रकृतिः, तत एतचित्तावर्जनार्थं सर्वदेव मद्यपानविरहिताभिर्युष्माभिः स्थातव्यं अन्यथैष विरक्तो यास्यति, आषाढभूति सकलकलाकलापपरिज्ञानकुशलो नानाविधैर्विज्ञानातिशयैः सर्वेषामपि नटानामग्रणीर्वभूव, लभते च सर्वत्र प्रभूतं द्रव्यं वस्त्राभरणानिच। अन्यदा च राज्ञा समादिष्टा नटाः अद्य निर्महलं नाटकं नत्तनीयं, ततः सर्वेऽपि नटाः स्वां स्वां युवतिं स्वस्वगृहे विमुच्य राजकुलं गताः, आषाढभूतिभार्याभ्यामपि चिन्तितम् अद्य राजकुले गतोऽस्माकं भर्त्ता सकलामपिच रात्रिं गमयिष्यतीति ततः पिवामो यथच्छमासवमिति, तथैव कृतं, मदवशाच्चापगतचेतन विगतवस्त्रे द्वितीयभूमिकाया उपरि सुप्तं तिष्ठतः राजकुलेऽपि पराष्ट्रदूतः समायात इति राज्ञो व्याक्षेपो बभूव, ततोऽनवसरइतिकृत्वाप्रतीहारणमुक्तालिताः सर्वेऽपिनटाः समागताः स्वस्वभवनं, आषाढभूतिश्रनिजकावास समागत्य यावद्वितीयभूमिकामारोहति तावत्तं द्वे अपि निजभार्ये विगतवस्त्रतया बीभत्सं पश्यति, ततः स महात्माऽ-चिन्तयत्- अहो । मे मूढता अहो । मे निर्विवकता अहो । में दुर्विलसितं य एतादृशामप्यशुंचिकरण्डक-भूतानामधोगतिनिबन्धनानां कृते परशुचिभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्ति- पनिबन्धनं संयमं उज्झांबभूव, ततोऽद्यापिनमं किमपिविनष्टम् अपिगच्छामिगुरुपादान्तिकंप्रतिपद्य चारित्रं प्रक्षालयामिपापपङ्कमिति विचिन्त्य विनिर्गतो गृहात्, दृष्ट कथमपिविश्वकर्मणा, लक्षति इङ्गितादिना यथाविरक्त एषयातीति, ततः सत्वरं निजदुहितरावुत्थाप्यनिर्भर्त्सयति-हा । दुरात्मिके । हींनपुण्य चतुर्दशीके । पुष्मद्विल-सितमेताद्दशमवलोक्य सकलनिधानभूतो युष्मोद्भर्ता विरक्तो यातीति तद्यदि निर्वर्त्तयितुं
www.jainelibrary.org
मूलं - ५१८
Jain Education International
For Private & Personal Use Only