________________
मूलं - ५३२
वृ. विद्यामन्त्रयोः प्ररूपणा कर्तव्या, सा चैव ससाधना स्त्रीरूपदेवताधिष्ठाता वाऽक्षरपद्धतिर्विद्या, असाधना पुरुषरूपदेवताधिष्ठाता वा मन्त्रः, 'तत्थ 'त्ति तत्र विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्रे शिरोवेदनायां मुरण्डेन राज्ञोपलक्षितः पादलिप्तसूरिः । तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयतिपरिपिंडमुल्लावो अड़पंतो भिक्खुवासओ दावे । जइ इच्छह अनुजाणह धवगुलवत्थाणि दावेमि ॥ तुं विज्जामंतण किं देमि ? धयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केम मुट्टोमि ? ॥
मू. (५३३)
मू. (५३४)
वृ. गन्धसमृद्धे नगरे धनदेवो नाम भिक्षूपासकः ससाधुभ्यो भिक्षार्थं गृहे समागतेभ्योनकिञ्चिदपि ददाति, अन्यदा च तरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापः, तत्रैकेनोक्तम्- अतिप्रान्तोऽयं धनदेवः, संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं दायपति, ततस्तेषां मध्ये केनाप्यूचेयदीच्छय ततोऽनुजानीध्वयं मां येनाहं दापयामि, तैरनुज्ञातः, ततो गतस्तस्य गृहमभिमन्त्रितो विद्यया, ततो ब्रूते साधून- किं प्रयच्छामि ?, तैरुक्त- घृतगुडस्त्रादि, ततो दापितं तेन संयतेभ्यः प्रचुरं धृतगुदिकं, तदन्तरं च प्रतिसंहृता क्षुल्लकेन विद्या, जातः स्वयभावस्थो भिक्षूपासकः, ततो यावन्निमालयति धृतादिकं तावत्स्तोकं पश्यति, ततः केन मे हृतं धृतादि य केनाहं मुषितोऽस्मि ? केनाहं मुषितोऽस्मि ? इति विलपितुं प्रवृत्तः, ततः परिजनेनोक्तं पुष्माभिरेव दापितं संयतेभ्यः तक्तिं युवमेवं भणय ?, ततो मौनमवलम्ब्य स्थितः । पडिविज्जं थंमणाई सो वा अन्न व से करिज्नाहि ।
मू. (५३५)
पावाजीवीमाई कम्मणगारी य गहणाई ||
वृ. यो विद्याऽभिमन्त्रितः स च स्वभावस्थो जातः सन् कदाचित्प्रद्विष्टोऽन्यो वा तत्पक्षपाती प्रद्विष्टः स् प्रतिविद्यया ' स्तम्भनादि' स्तम्भनो चाटनमारणादि कुर्यात्, तथा 'पापाजीविन: ' पापेन - विद्यादिना परद्रोहकरणरूपेण जीवनशीला मायिनः शठा इति लोके जुगुप्सा, तथा कार्मणकारिण हमे इति राजकु ग्रहणाकर्षणेवषपरित्याजनकदर्थनमारणादि । सम्प्रति मन्त्रविषये मुरुण्डराजो पलक्षितपादलिप्तोदाहरणमाहमू. (५३६) जह जह पसिणी जानुगमि पालित्तओ भाडे । तह तह सीसे वियणा पणस्सइ मुरुंडरायस्स ।।
वृ. प्रतिष्ठानपुरे मुरुण्डो नाम राजा, पादलिप्ता नाम सूरयः, अन्यदा च मुरुण्डराजस्य बभूवातिशयेन शिरोवेदना, न केनापि विद्यामन्त्रादिभिरुपशमयितुं शक्यते, तत आकारिता राज्ञा पादलिप्ताः सूरयः, कृतोस्तेषामागतानां महती प्रतिपत्तिः कथितं चाकारणकारणं शिरोवेदना, ततो यथा लोको न जानीते तथा मन्त्रं ध्यायदिभः प्रावरममधे निजदक्षिणजानुशिरसिपार्श्वती निजदक्षिणहस्तप्रदेशिनी यथा यथा भ्राम्यते तथा तथा राज्ञः शिरांवेदना अपगच्छति, ततः कर्मणापगता सकलाऽपि शिरोवेदना, जातोऽतिशयेन सूरीणामुपासकः, ततां विपुलं भक्त पानादिकं तेभ्यो दत्तवान, । अत्र दोषानाह
मू. (५३७)
पडिमंतर्थमणाई सो वा अन्ना व से करिज्जाहि ।
पावाजीवियमाई कम्मणगारी भवेबीयं ॥
वृ. इह कथानके न कोऽपि दोषो जातः, पादिलिप्तसूरीणां मुरुण्डराजं प्रत्युपकारित्वात, केवलं प्रागुक्ताविद्याकथानक इव मन्त्रेऽपि प्रयुज्यमाने सम्भाव्यन्ते दोषाः ततस्तदुपदर्शनं क्रियते, तत्रेयं गाथा प्रागिव व्याख्येया, नवरं भवे वीयं' तिपुष्टमालम्बनमधिकृत्य द्वितीयम् - अपवादपदं भवेतं, सङ्घादिप्रयोजने मन्त्रोऽपि
Jain Education International
३७९
For Private & Personal Use Only
www.jainelibrary.org