Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-४३५ तोऽपरिज्ञानतः, कोऽपि पुनः सम्यग्दृष्टिरपि सन्नविरतत्वेन गार्हस्थ्यमवलम्बमानः, ततो मिथ्यात्वाज्ञानाविरतिरूपेणत्रिकेणनवगुणिताःसप्तविंशतिर्भवति.रागद्वेषौत्वत्रपृथग्नविवक्ष्येते, यदातुपृथगविवक्ष्येते तदाताभ्यांसप्तविंशतिर्गुणिताचतुष्पञ्चाशद्भवतितथा ताएवनवकोटयःकदाचित् पुष्टमालम्बनमधिकृत्य दशविधक्षान्त्यादिधर्मपरिपालनार्थसेव्यन्ते,यथादुर्भिक्षेकान्तारेचान्येनफलादिनाऽभ्यवहृतेनाहंदेहंधृत्वा क्षान्तिमार्दवमार्जदयावद्दह्यपालयिष्यामीति हन्ति.एवमन्येनघातनाद्यपिभावनायं ततो नवदशभिगणिता जाता नवतिः इयंचसामान्यतश्चारित्रनिमित्ता, काचितपनश्चारित्रनिमित्ता विशिष्टज्ञानलाभसम्भवनिमित्ता च, यथाऽस्मिन कान्तारादावनेन फलादिनाऽभ्यवहृतेन देशमहं घृत्वा क्षान्त्यादिकं पालयिष्यामि प्रभूतानि च शास्त्राण्यध्येष्ये इति हन्तीत्यादि, एषा च ज्ञानस्य प्राधान्यविवक्षणात ज्ञाननिमित्ता भण्यते, काचित्पुनश्चारित्रनिमित्ता दर्शनस्थिरीकरणहेतुशास्त्रार्थपरिज्ञाननिमित्ता च, यथाऽस्मिन कान्तारादावनेन फलादिनाऽभ्यवहतेन देहं परिपाल्य ज्ञान्त्यादिकंपालयिष्यामिदर्शनंच निर्मलं विधास्ये इति हन्तीत्यादि. एषा चदर्शनस्यप्राधान्यविवक्षणाद्दर्शननिमित्ताभिघीयते,ततएवं त्रिप्रकारानवतिरिति त्रिभिर्नवतिर्गुण्यते. ततो द्वे शते सप्तत्यधिके कोटीनां भवतः, उक्तं च
सगाई मिच्छाई रागाई समणधम्म नाणोंई। नव नव सत्तावीसा नव नउइए उगुणकारा॥ यातुदर्शनस्थिरीकरणार्थंप्रभूतशेषशास्त्रावगाहनार्थचारित्रार्थचसेव्यतेसासामान्यतथारित्रनिमित्तायामन्तर्भाव्यते,ततोनसूत्रोक्तभेदसंख्यानियमव्याघातः।सम्प्रत्युद्गमद्वारदोषाणांवक्ष्यमाणोत्पादनाद्वारदोषाणां च यतः सम्भवस्तांस्तदुत्थितान् वैविक्त्येनाह. म. (४३६) नामं ठवणादविए भावे उप्पायणा मुनेयव्वा।
दव्वंमि होइ तिविहा भावंमि उ सोलसपया उ॥ वृ. उत्पादना चतुर्द्धा, तद्यथा-'नाम'ति नामोत्पादना स्थापनोत्पादना 'द्रव्ये' द्रव्यस्योत्पादना 'भावे' भावस्योत्पादना च, तत्र नामस्थापने द्रव्यस्योत्पादना च यावन्नोआगमतो भव्यशरीरद्रव्योत्पादना प्रागुक्त गवेषणादिवि भावनीया, ज्ञशरीरभव्यशरीव्यतिरिक्तातु द्रव्योत्पादना त्रिधा-सचित्तद्र-व्योत्पादनाऽचित्तद्रव्योत्पादना मिश्रद्रव्योत्पादना च। भावोत्पादना द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्रागमतउत्पादनाशब्दार्थज्ञस्तत्रचोपयुक्तः,नोआगमतोभावोत्पादनातुद्विधा.तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्र प्रशस्ता जानाद्युत्पादना, अप्रशस्ता 'षोडशपदा' वक्ष्यमाणघात्रीदत्यादिषोडशभेदा। मू. (४३८) आसृयमाइएहिं वालचियतुरंगबीयमाईहिं।
सुयआसमाईणं उप्पायणया उसच्चित्ता॥ वृ. सुताश्वद्रुमादीनां द्विपदचतुष्पदापदरूपाणाम. अत्रादिशब्दः प्रत्येकमभिसम्बध्यत. सुतादीनामश्वादीनां दुमादीनां च यथासहरन्यमास्यादिभिः, 'आसूयम' आपयाचितकम. आदिशब्दादभाटकजनादिपरिग्रहः। तथा बालचिततुरङ्गबीजादिभिश्च' तत्रबालः केशरामादिभेदभिन्नचिता-व्याप्तावालचितः पुरुषो 'लोमशः पुरुष' इति वचनात. तुरङ्गवीजे च सुप्रसिद्रे, आदिशब्दादन्यहेतुपरिग्रहः. या उत्पादना, तथाहिकेनचिनिजभार्यायाः कथमपि पुत्रायम्भव देवताया आपयाचितकन ऋतुकाले स्वसंप्रयोगण चसुतः पुत्रिका वोत्पादयते, तथा निजघोटिकायाः परस्य भाटकप्रदानेन परघोटकमारोप्य तुरङ्ग उत्पाद्यते, एवं यथायोगं बलीवादिरपि, तथा जलसेकेन बीजारोपणेनद्रुमवल्यादिः, तत इत्थं सुतादीनामुत्पादनासा सचित्तद्रव्योत्पादना। सम्प्रत्यचित्तद्रव्योत्पादनां मिश्रद्रव्योत्पादनां च प्रतिपादयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436