Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 355
________________ ३५२ पिण्डनिर्युक्तिः- मूलसूत्रं वेलाया पचात्कृतं ?, तत आह- बहुवक्त व्यमिदं द्वारमतो व्याख्यावेलायां पश्चात्कृतं, तत्र 'गुरुः ' तीर्थकरादिः 'वर्णयति' प्ररूपयति यथा च चुल्लको द्विधा, तद्यथा-स्वामिनो हस्तिन । मू. (४१४) छिन्नमछिन्नो दुविहो होइग अछिन्नो निसिट्ठअनिसिट्टो । छिन्नंमि चुल्लगंमी कप्पइग घेत्तुं निसिट्ठमि ॥ वृ. so द्विधा चुल्लकः, तद्यथा - छिन्नोऽच्छिन्नश्र, इयमत्र भावना - इह कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं प्रस्थापयति, स यदैकैकाहालिकयोग्यं पृथक् पृथग् भाजने कृत्वा प्रस्थापयति तदा स चुल्लकश्छिन्नः, यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः, एवमन्यत्राप्युद्यापनिकादौ छिन्नाच्छिन्नत्व चुल्लकस्य भावनीयम् । अच्छिन्नोऽपि द्विघा, तद्यथा-1 -निसृष्टोऽनिसृष्टश्च, तत्रनिसृष्टः कौटुम्बिकेनयेषां च हालिकानांयोग्यसचुल्लकःतैश्चसाधुभ्योदानाय मुत्कलितः,इतरस्त्वमुत्कलितोऽनिसृष्टः । तत्रयस्यनिमित्तं छिन्नः सएव चेत्तस्यात्मीयस्य छिन्नस्य दाता तर्हि तस्मिंश्छिन्नेऽपि चुल्लकेतत्स्वामिना दीयमाने साधूनां ग्रहीतुं कल्पते, दोषाभावात्, तथाऽच्छिन्नेऽपिसर्वैरपि तत्स्वामिभिर्निसृष्टे - अनुज्ञाते तंग्रहीतुंकल्पते, तत्रापिदोषाभावात् । एनमेवार्थं सविशेषतरमाह मू. (४१५) छिन्नो दिट्टमदिट्ठो जो य निसिट्टो भवे अछिन्नो य । . सो कप्पइ इयरो उन अदिदिट्ठो वडणुन्नाओ ॥ वृ. यल्लको यस्य निमित्तं छिन्नः स तेने दीयमानो मूलस्वामिना कौटुम्बिकेनादृष्टो दृष्टो वा कल्पते, तथायश्चाच्छिन्नोयोऽपिचयस्यनिर्मिर्त्तछिन्नःसस्वस्त्रस्वामिभिरनुज्ञातोऽन्येनदीयमानः स्वस्वस्वामिभिरदृष्टो दृष्टो वा कल्पते, 'इयरो उ ण'त्ति इतर एतद्व्यतिरिक्तः तुः- पुनरर्थे छिन्नोऽछिन्नो वा स्वस्वस्वामिभिरननुज्ञातोऽदृष्टो दृष्टो वा न कल्पते, प्रागुक्त ग्रहणादिदोषसम्भवात्, अयंचविधिः साधारणानिसृष्टेऽपिवेदितव्यः । मू. (४१६/२) अनिसिट्टमणुन्नायं कप्पड घेत्तुं तहेव अद्दिनं । वृ. अनिसृष्टं साधारणानिसृष्टंपूर्वं स्वस्वामिभिः सर्वैरननुज्ञातमपियदिपश्चादनुज्ञातंभवतितर्हिकल्पते तद्ग्रहीतुं । तथाऽनुज्ञातं सत् सर्वैः स्वामिभिरन्यत्रगतत्वादिना कारणेनादृष्टमपि ग्रहीतुं कल्पते, दोषाभावात् । सम्प्रति हस्तिनश्चुल्लकानिसृष्टं गाथोत्तरार्द्धेन भावयति मू. (४१६/२) अनिसि न कप्पई कप्पइ अदिट्टं ॥ .वृ. हस्तिनोभक्तं मिण्ठेनानुज्ञातमपिराज्ञागजेनचानिसृष्टम् अननुज्ञातंनकल्पते, वक्ष्यमाणग्रहणादिदोषप्रसङ्गात्, तथा मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते, गजदृष्टग्रहणे तु वक्ष्यमाणोपाश्रयभङ्गादिदोषप्रसङ्गः । अस्यैव विधेरन्यथाकरणे दोषानाह मू. (४१७) विपिंडो गयमत्तं गहणाईंग अंतराइयमदिनं । डुंबस्स संतिएवि हु अभिक्ख वसहीए फेडणया । वृ. इह यद्रजस्य भक्तं तद्राज्ञः पिण्डो- राज्ञो भक्तं, ततो राज्ञाऽननुज्ञातस्य ग्रहणे ग्रहणादयो- ग्रहणाकर्षणवेषोद्दालनावयो दोषा भवेयुः, तथा 'आन्तराकियम्' अन्तरायनिमित्तं पापं साधोः प्रसज्यते, राजा हि मदीयाज्ञामन्तरेणैष साधवे पिण्डं ददातीति रुष्टः सन् कदाचिद् मिण्टं स्वाधिकाराद्भशयति, ततो मिण्ठस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरन्तरायिकं पापं, तथा 'अदिन्नं' ति अदत्तादानदोषो, राज्ञाऽननुज्ञातत्वात् तथा 'डुम्बस्य' मिण्ठस्य सत्के पिण्डे मिण्टेन स्वयं दीयमाने 'अभीक्ष्णं प्रतिदिवसं यदिसाधुस्तं पिण्डंगजस्य पश्यतो गृह्णाति तदा मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते गृह्यते इत्येवं कदाचिद्रष्टः सन् यथायोगं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436