________________
३५४
पिण्डनिर्युक्तिः- मूलसूत्रं
दुत्पाट्य शेषभक्त स्योपरि निक्षिप्तमपि भण्यत ततो विशेषणान्तरमाह - पृथकृते स्थाल्या बहिर्निष्काशित शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया' उद्देशन न तु सिक्थादिपरिगणनेन यदि तावन्मात्रं कार्पटिकादिभ्यो दत्तं स्यात् ततः शेषं कल्पते । तदेवमभिहितमध्यवपूरकद्वारं, तदभिधानाच्चाभिहिताः षोडशाप्युद्गमदोषाः । सम्प्रत्येतेषामेव विभागमाह
मू. (४२२)
एसो सोलसभेओ, दुहा कीरड़ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥
वृ. एष षोडशभेद उद्गमः सामान्येन द्विधा, तद्यथा- 'एको विशोधिकोटिः' एको भेदो विशोधिकोटिरूपः अपरा च ‘अविशोधिः’‘अविशोधिकोटि:' अविशोधिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टमक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः ।
मू. (४२३)
आहाकम्मुद्देसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झायरए य चरिमदुगं ॥
वृ. आधाकर्मसप्रभेदम्. १ 'औद्देशिकस्य' विभागौद्देशिकस्यान्त्यभेदत्रयं २ तथा 'पृतिः ' भक्त पानरूपा ३ ‘मिश्रजातं ' पाषण्डिगृहमिश्रसाधुगृहमिश्ररूपं ४ बादरा प्राभृतिका ५ अध्यवपूरकस्य च 'चरमद्विकं' स्वगृहपाषण्डिमिश्रस्वगृहसाधुमिश्ररूपम् ६, एते उद्गमदोषा अविशोधिकोटिः । अनया चाविशोधिकोट्या अवयवेन स्पृष्टं शुद्धं भक्तं यद्दोषदुष्टं भवति तं दोवमाह
मू. (४२४)
उग्गमकोडी अवयव लेवालेवे य अकयए कप्पे । कंजियआयामगचाउलोयसंसट्टपूईओ ॥
वृ. ‘उद्गमकोट्याः उद्गमदोषरूपाया अविशोधिकोट्या 'अवयवेन' शुष्कसिक्थादिना तथा 'लेपेन' तक्रादिना 'अलेपेन' वल्लचणकादिना संस्पृष्टंयदृभक्तं तस्मिन्नुज्झितेऽपियत् अकृते कल्पे - अकृतकल्पये इत्यर्थः पात्रे यत्पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यम् । इह कचिन्मतिदौर्वल्यादित्यं विकल्पेत-यथा यदेव साधूनाधाय निर्वर्त्तितं तदेवैकमोदनमाघाकर्म भवति, न शेषमवश्रावणकाञ्जिकादि, ततस्तत्संस्पृष्टं पूतिर्न भवतीति ततस्तदभिप्रायनिराकरणार्थमाह- 'कंजि' इत्यादि, इह साध्वर्थमोदनेऽभिनिर्वर्त्त्यमाने यत्तत्सत्कं काञ्जिकादि तदप्याघाकर्मैव, तदवयवरूपत्वात्, ततः काञ्जिकेनाऽऽयामेन - अवश्रावणेन चाउलोदकेन च यत्संस्पृष्टं तदपि पूतिर्भवति । एतदेव रूपकत्रयेण भाष्यकृद्याख्यानयति
मू. (४२५)
[भा. २८]
मू. (४२६)
सुक्केणऽवि जं छिक्कं तु असुइणा धावए जहा लोए । इह सुक्कणऽवि छिक्कं धोवड़ कंमेण भाणं तु ? ॥ लेवालेवत्ति जं वृत्तं, जंपि दव्वमलेवडं । तंपि घेत्तुं न कप्पंति, तक्काड़ किमु लेवर्ड ? ॥ आहाय जं. कीरइ तं तु कम्मं, वज्जेहिही आयणमेगमेव । सोवीर आयामग चाउलो वा, कम्मंति तो तग्गहणं करेंति ॥
[भा. २९]
मू. (४२७)
[भा. ३०]
वृ. सुगमं नवरमाद्यरूपकेण अवयव' इतिपदंव्याख्यातं, द्वितीयरूपकण लेवालेव' इति, तत्रायं भावार्थ:वल्लचनकादिद्रव्यमलेपकृत्यदिप्रथममनाभोगादिकारणतः पात्रे गृहीत्वापश्चात्कथमपिपरिज्ञाते परित्यज्य पात्रंकल्पयन्ति-कल्पत्रयेणप्रक्षालयन्ति, किं पुनस्तक्रादिकं लेपकृगृहीत्वा तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्त्तव्यम् इति परिज्ञापनार्थं लेपालेप इत्युक्तं तथा यंदेव मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधा कर्म
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only