________________
मूलं-४२७ नान्यदिति बुध्या शिष्या वर्जयिष्यन्ति ओदनमेवैकं केवलं न शेषं तण्डलोदकादिकं ततो गरवो. भद्रबाहुस्वामिनःसौवीरावश्रावणतण्डुलोदकान्यप्याधाकर्मेतिपरिज्ञापनार्थंतद्रहणं-सौवीरादिग्रहणंविशेषतः कुर्वन्ति । तदेवमविशोधिकोटिसक्ता, सम्प्रति विशोधिकोटिमाहमू. (४२८) सेसा विसोहिकोडी भत्तं पानं विगिंचजहसत्ति।
अणलक्खिय मीसदवे सव्वविवेगेऽवयव सुद्धो॥ वृ. शेषौघौद्देशिकं नवविधमपि च विभागौदेशिकम् - उपकरणपूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राभृतिका प्रादुष्करणं क्रीतं प्रामित्यकं परिवर्तितमभ्याहृतमुभिन्नं मालापहृतमाच्छेद्यमनिसृष्टमध्यवपूरकस्याद्यो भेदचेत्येवंरूपा विशोधिकोटिः, विशुध्यति शेषं शुद्धं भक्तं यस्मिन्नुद्धृते यद्वा विशुद्ध्यति पात्रमकृतकल्पत्रयमपि यस्मिन्नुज्झितेसा विशोधिः, साचासौ कोटिश्व-भेदश्च विशोधिकोटिः, उक्तं च.
उद्देसियंमि नवगं उवगरणे जंच पझ्यं होई। जावंतियमीसगयं च अन्झोयरए य पढमपयं। . परियट्टिए अभिहडे उब्भिन्न मालोहडे इय। अच्छिज्ज अणिसिट्टे पाओयर कीयपामिच्चे॥ सुहमा पाहडियाविय ठवियगपिंडो यजो भवे दविहो। सव्वोविएस रासी विसोहिकोडी मुणेयव्वो॥
अत्र विधिमाह- विगिंच जहसत्तिं' अनया विशोधिकोट्या यत् संस्पृष्टं भक्तं पानं वा तद्यथाशक्ति'विगिश्च परित्यज, इयमत्र भावना-भिक्षामटता पूर्वपात्रेशुद्धंभक्तं गृहीतं,ततस्तत्रैवानाभोगादिकारणवशतोविशोधिकोटिदोषदृष्टंगृहीतं. पश्चाच्चकथमपिज्ञातं-यथैतद्विवक्षितंविशोधिकोटिदोषदृष्टंभया गृहीतमिति, ततो यदि तेन विनापि निर्वहृति तर्हि सकलमपि तद्विधिना परिष्ठापयति, अथ न निर्वहति तदा यदेव विशोधिकोटिदोषदृष्टं तदेव तावन्मात्रं सम्यक् परिज्ञाय परित्यजति, यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक् परिज्ञातुमशक्येन मिश्रितं भवति यद्वा द्रवेण' तक्रादिना तदा सर्वस्यापि तस्य विवेकः. कृते च सर्वात्मना विवेके यद्यपिकेचित्सूक्ष्मा अवयवालगिताभवन्ति तथापितत्र पात्रेऽकृतकल्पेऽप्यन्यतः परिगृह्यन शुद्धो यतिः, त्यक्तभक्तादेर्विशोधिकोटित्वाद. विवेकवत भवतिम.(४२९) दव्वाइओ विवेगो दव्वे जंदव्व जंजहिं खेत्ते।
काले अकालहीनं असढो जंपस्सई भावे॥ वृ. 'द्रव्यादिकः' द्रव्यक्षेत्रकालभावविषयोविवेकः,तत्रयद्दव्यंपरित्यजतिसद्रव्यविवेकः, तथापरित्याज्यं यत्र क्षेत्रे परित्यज्यते स क्षेत्रविवेकः, क्षेत्रे विवेकः क्षेत्रविवेक इति व्युत्पत्तेः, तथा यद्विशोधिकोटिदोषदुष्टमकालद्दीन-शीघ्रंपरित्यज्यतेएषकालतोविवेकः इहयदैवदोषदृष्टंभक्तादिपरिज्ञातंतदैवतत्कालविलम्बाभावन परित्यक्त व्यं, परित्यागबुद्ध्या वा पृथग-भिन्न स्थाने कर्त्तव्यमन्यथा भावतस्तत्परिग्रहात्संयमहानिप्रसक्तः तत उक्त मकालहीनमिति,तथांयत अशठः अरक्त द्विष्टःसनदोषदष्टंपश्यतिदृष्ट्राचाकालहीनं शीघ्र परित्यजति स 'भाव' भावता विवेकः । इह निर्वाह सति विशाधिकाटिदोषसम्मिअं सकलमपि परित्यक्तव्यम, अनिहिं तु तावन्मानं, तत्र विधिमुपदर्शयितुकामः प्रथमतश्चतुर्भङ्गिकामाह . मू. (४३०) सुक्कोल्लसरिसपाए असरिसपाए य एत्थ चउभंगो।
___तुल्ले तुल्लनिवाए तत्थ व दान्नऽतुल्ला उ॥ वृ. अत्र शुष्कस्याऽऽर्द्रस्य च 'सदृशे' समानेऽन्यस्मिन् वस्तुनि मध्ये पतिते सति तथा 'असदृशे' असमानेऽन्यस्मिन् वस्तुनि मध्ये पतिते सति चतुर्भङ्गीभवति, सूत्रे चपुंस्त्वनिर्देशआर्षत्वात्, चत्वारोभङ्गा भवन्तीत्यर्थः, तेचेमे-शुष्के शुष्कंपतितं.शुष्के आर्द्रम, आर्द्र शुष्कम, आई आईमिति, तत्र येनयेनपदेन यौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org