________________
३५६
पिण्डनिर्युक्तिः- मूलसूत्रं
3
यो भङ्गी लब्धा तौ तौ तथा दर्शयति- 'तत्थ' त्ति तत्र 'तुल्ये' समाने सति अन्यस्मिन् वस्तुनि मध्ये तुल्यनिपातेऽधिकरणसदृशस्य वस्तुनः प्रक्षेपे ' द्वौ' प्रथमचतुर्थरूपौ भङ्गौ लब्धौ तौ च 'सुक्कोल्लसरिसपाए' इत्यनेन पदेन सूचितौ, तथा द्वौ भङ्गौ द्वितीयतृतीयरूप 'अतुल्यात्' विसदृशात् प्रक्षिप्यमाणात् लब्धौ तौ च 'असरिसपाए य' इत्यनेन पदेनोक्तौ । तदेवं चतुर्भङ्गिकामभिधाय सम्प्रत्यत्रैवोद्धरणविधिमाह - सुक्क सुक्कं पडियं विगिंचिउं होड़ तं सुहं पढमो । बीयंम दवं छोढुं गालंति दवं करं दाउ ।। तइयंमि करं छोढुं उल्लिंचइ ओयणाइ जं तरइ । दुल्लहदव्वं चरिमे तत्तियमित्तं विगिंचंति ॥
मू. (४३१)
मू. (४३२)
वृ. 'शुष्के' वल्लचनकादौ मध्ये यत् 'शुष्कं' वल्लचनकादि पतितं तत्सुखं-जलप्रक्षेपदिकष्टमन्तरेण ‘विगिंचिउं होइ’ परित्यक्तुं भवति, परित्याज्यं भवतीत्यर्थः, एष प्रथमो भङ्गः, तथा द्वितीये भङ्गे 'शुष्के' वचनादौ मध्ये कथमप्यार्द्र तीमनादि विशोधिकोटिदोषवत् पतितमित्येवंरूपे 'द्रव' काञ्जिकादि तत्र मध्ये प्रभूतंप्रक्षिप्यपश्चात्पामवनभ्य पात्रकर्णेकदेशे च शुद्धभक्त पानरक्षणार्थं करं च दत्त्वा सर्व द्रवं गालयन्ति । तथा तृतीये शुद्धे आर्द्र तीमनादौ मध्यपतितं शुष्कं कूरवल्लचनकादिरूपमोदनमित्येवंरूपे तत्र तीमनादौ मध्ये 'करं' हस्तं प्रक्षिप्यौदनादि यद्यावन्मात्रं शक्रोति तावन्मात्रमशठः सन् 'उल्लिंचति' आकर्षति, ततः शेषं तीमनादि कल्पते, यथा‘चरमे’ आर्द्रेआर्द्रपतितमित्येवंरूपे यदि तद्द्रव्यं दुर्लभम्' अन्यत्र नप्राप्यते तत्रोद्देशतस्तावन्मात्रं परित्यजन्ति, शेषं कल्पते, एषा चतुर्भङ्गिका साधुनामसंस्तरणे वेदितव्या, संस्तरणे च सकलमपि परित्यजन्ति । तथा चाहमू. (४३३)
संथरे सव्वमुज्झति, चउभंगो असंथरे । असढो सुज्झई जेसु, मायावी जेसु बज्झई ॥
वृ. ‘संस्तरे' निवहि सति सर्वमपि पात्रस्थितं निशोधिकोटिसंसृष्टमुज्झन्ति, 'असंस्तरे' अनिवहि पुनः 'चतुर्भङ्गी' चत्वारोऽनन्तरोक्ता भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्षस्वात् कथंभूतास्ते भङ्गाः ? इत्याह-येषु भङ्गेषु 'अशठः' अरक्त द्विष्टः सन् वर्त्तमानः शुध्यति शुद्धि मापद्यते, मायावी च येषु बध्यते । तदेवं विशोध्यविशोधिरूपं कोटिद्वयं सप्रपञ्चमुक्त म्, इदानीं तदेवोपसंहारव्याजेन सङ्क्षेपत आहकोडीकरणं दुविहं उग्गमकोडी विसोहिकोडी य ।
मू. (४३४)
उग्गमकोडी छक्कं विसोहिकोडी अनेगविहा ||
वृ. कोटीकरणं द्विविधं' द्विप्रकारं, द्विधाकोटिरित्यर्थः तद्यथा- उद्गमकोटिर्विशोधिकोटिच, तत्रोद्गमकोटिः 'पटकम' आधाकर्मिकौदेशिकान्त्यभेदत्रिकादिषड्भेदाः, विशाधिकोटिः पुनरनेकविधा-आधौदेशिकादिख्या । मू. (४३५) नव चैव अढारसंग सत्तावीसा तहेव चड पन्ना । नउइ दो चेव सया उ सत्तरी होड़ कांडीणं ॥
वृ. प्रथमतः कोटयो नव भवन्ति, तद्यथा - स्वयं हननमन्येन घातनमपरेण हन्यमानस्यानुमोदनं, तथा स्वयं पचनमन्येन पाचनमपरेण पच्यमानस्यानुमोदनं, तथा स्वयं क्रयणमन्येन क्रायणमपरेण क्रीयमाणस्यानुमोदनम्, इहाद्याः षडविशोधिकोटयोऽन्तिमास्तु तिस्रो विशोधिकोटयः, एता अपि नवकोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेण, ततो द्विकेन गुणिता अष्टादश भवन्ति, अथवैवं ताः- -कोऽपि मिथ्यादृष्टिः कुशास्त्रसम्पर्कसमुत्थवासनावशतो निःशङ्क सेवते, कोऽपि सम्यग्दृष्टिः सन् विरतोऽप्यनाभोगा-दिकारण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org