________________
मूलं - ४१७
३५३
मार्गे परिभ्रमन्नुपाश्रये तं साधुं दृष्ट्वा तमुपाश्रयं स्फोटयेत्. साधुं च कथमपि प्राप्य मारयेत्, तस्मान्न गजस्थ पश्यतो मिण्ठस्यापि सत्कं गृह्णीयात् । तदेवमुक्त मनिसृष्टद्वारम्, अधुनाऽध्यवपूरकद्वारमाह• अज्झोयरओ तिविहो जावंतिय सघरमीसपासंडे । मूलंमिय पुव्वकये ओयरई तिण्ह अट्टाए ।
मू. (४१८)
वृ. अध्यवपूरकः ‘त्रिविधः' त्रिप्रकारः तद्यथा- 'जावंतिय' इति स्वगृहमिश्रशब्दयोरत्रापि सम्बन्धनात् स्वगृहयावदर्थिकमिश्रः‘सघरमीसे' त्तिअत्र साधुशब्दोऽध्याहियते, स्वगृहसाधुमिश्रः, 'पासंडे' इति अत्रापि यथायोगं स्वगृहमिश्रशब्दसम्बन्धः, स्वगृहपाषण्डिमिश्रः, स्वगृहश्रममिश्रः स्वगृहपाषण्डिमिश्रेऽन्तर्भावित इति पृथग्ग्रोक्तः । त्रिविधस्यापि सामान्यतो लक्षणमाह- 'मूलंमी' त्यादि, मूले - आरम्भेऽग्रिसन्धुक्षणस्थालीजलप्रक्षेपादिरूपे पूर्व यावदर्शिकाद्यागमनात् प्रथममेव स्वार्थं निष्पादिते पश्चाद्यथासम्भवं 'त्रयाणां' यावदर्शिकादीनामर्थाय ' अवतारयति' अधिकतरांस्तण्डुलादीन प्रक्षिपति एषोऽध्यवपूरकः. अत एव चास्य मिश्रजातादभेदः, यत्तो मिश्रजातं तदुच्यते श्वत्प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते, यत्पुनः प्रथमत आरभ्यते स्वार्थं पश्चात्प्रभूतान र्थिनः पाचण्डिनः साधून् समागतानवगम्य तेषामर्थायाधिकतरं जलतण्डुलादि प्रक्षिप्यते सोऽध्यवपूरक इति मिश्रजातादस्य भेदः । अमुमेव भेदं दर्शयतिसंडुलजलआयाणे पुप्फफले सागवेसणे लोणे ।
मू. (४१९)
परिमाणे नाणत्तं अज्झोयरमीसजाए य ॥
वृ. इंह' व्यत्ययोऽप्यासा' मिति वचनात्सप्तमी यथायोगं षष्ठ्यर्थे तृतीयार्थे च वेदितव्या, ततोऽयमर्थःअध्यवपूरकस्यमिश्रजातस्यचपरस्परंनानात्वंतण्डुलजलपुष्पफलशाकवेसनलवणानाम् 'आदाने' आदानकालेयत्विचित्रंपरिमाणंतेनद्रष्टव्यं, तथाहिमिश्रजातेप्रथमतएव स्थाल्यां प्रभूतंजलमारोप्यते, अधिकतराश्च तण्डुलाः कण्डनादिभिरुपक्रम्यन्ते, फलादिकमपि च प्रथमत एव प्रभूततरं संरभ्यते, अध्यवपूरके तु प्रथमतः स्वार्थं स्तोकतरंतण्डुलादिगृह्यते, पश्चाद्यावदर्थिकादिनिमित्तमधिकतरंतण्डुलादिप्रक्षिप्यते, तस्मात्तण्डुलादी'नामादानकाले यद्विचित्रं परिमाणं तेन मिश्राध्यवपूरकयोर्नानात्वमवसेयं ।
मू. (४२० )
जावतिए विसोही सघरपासंडि मीसए पूई ।
छिन्ने विसोही दिन्नमि कप्पड़ न कप्पई सेसं ॥
वृ. 'यावदर्शिके' यावदर्थिकमिश्रेऽध्यवपूरके शुद्धभक्त मध्यपतिते यदि तावन्मात्रमपनीयते ततो विशोधिर्भवति, अत एव च स्वगृहयावदर्थिकमिश्रोऽध्यवपूरको विशोधिकोटिर्वक्ष्यते, स्वगृहपाषण्डिमिश्रे उपलक्षणमेतत् स्वगृहसाधुमिश्रे च शुद्धभक्त मध्यपतिते पूतिर्भवत्ति, सकलमपि तद्भक्तं पूतिदोषदुष्टं भवतीत्यर्थः तथा विशोधिकोटिरूपं यावदर्थिकाध्यवपूरके छिन्ने यावन्तः कणाः कार्पटिकाद्यर्थं पथात्क्षिप्ताः तावन्मात्रे स्थाल्याः पृथकृते सति यद्या तावन्मात्रे कार्पटिकादिभ्यो दत्ते सति शेषमुन्द्ररितं यद्भक्तं तत्साधूनां कल्पतं शेषं पुनः स्वगृहपाषण्डिमिश्रस्वगृहसाधुमिश्राध्यवपूरकरूपं न कल्पते, विमुक्तं भवति ? - यदि तत्तावन्मात्रं स्थाल्याः पृथक्कृतं दत्तं वा पाषण्ड्यादिभ्यस्तथापि यच्छेषं तन्न कल्पते इति ।
मू. (४२१)
छिन्नमितओ उक्कड्डियंमि कप्पड़ग पिहीकए सेसं ।
आहावणाए दिन्नं च तत्तियं कप्पए सेसं ॥
वृ. विशोधिकोटिरूपे यावदर्थिकऽध्यवपूरके यावदधिकं पश्चात् प्रक्षिप्तं तावन्मात्रे 'छिन्ने' पृथकृते तत्र छेदो रेखयापि भवति तदाह-‘तओ उक्कड्डियंमि' ततः स्वस्थानादुत्कर्षित - उत्पाटिते, इहोत्वार्षितं स्वस्थाना
26 1 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org