Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 352
________________ मूलं- ३९९ ३४९ वृ. प्रभुणा बलादाच्छिद्यमाने दुग्धे कोऽपि गोपो रुष्टः प्रभोः सम्मुखमेवमपि ब्रुवाणः सम्भाव्यते, यथा किमिति मदीयं दुग्धं बलादागृह्णासि ?, न खलु 'अनिर्वृष्टम् ' अनुपार्जितमिह किमपि लभ्यते, ततो मया स्वशरीरायासबलेनेदं दुग्धमुपार्जितम्, अतः कथमत्र प्रभवसि ?, न हि दास्यप्यास्तामुत्तवेश्यादिकमित्यपिशब्दार्थः, 'भक्तास्ते' भक्त पानमृते, भरणपोषणमृते इत्यर्थः, 'भुज्यते' भोक्तुं लभ्यते, ततो मदीयं भोजनमिदम्, अतो न तेऽत्र प्रभुत्वावकाशः, एवं चोक्ते सति कदाचिद्द्रयोरपि प्रभुगोपालकयोः परस्परमेकतरस्य वाद्वितीयस्योपरि प्रद्वेषो वर्द्धते, प्रद्वेषेचवर्द्धमाने यत् करिष्यतिधनहरणमारणादिकंतत्स्वमेवाऽऽच्छेद्यादाने दोषत्वेनविज्ञेयं । तथायच्चान्तरायं गोपालकस्यतत्कुटुम्बस्यचतदपिदोषत्वेन विज्ञेयमिति । तदेवं 'गोवालप ' इति व्याख्यातम् । एतदनुसारेण च भृतकादावपि यथायोगमप्रीत्यादिकं सम्भावनीयमिति । सम्प्रति स्वामिविषयमाच्छेद्यं विभावयिषुराहमू. (४००) सामी चारभडा वा संजय दट्टूण तेसि अट्टाए । कलुणाणं अच्छेज्जं साहूण न कप्पए घेत्तुं ॥ वृ. इहस्वगृहमात्रनायकः प्रभुः ग्रामादिनायकः स्वामी चारभटावा- स्वामिभटावा, तेऽपि स्वामिग्रहणेन गृह्यन्ते । संयतान् दृष्ट्वा तेषां संयतानामर्थाय 'करुणानां कृपास्थानानां दरिद्रकौटुम्बिकादीनां सम्बन्ध्याऽऽच्छिद्य तद्ददाति तत्साधूनां न कल्पते एतदेव व्यक्तं भावयति मू. (४०१ ) आहारोवहिमाई जइअट्टाए उ कोइ अच्छिंदे । संखडि असंखडीए तं गिण्हंते इमे दोसा ॥ वृ. यदिकोऽपि स्वामी भटोवायतीनामर्थायकेषाञ्चित्सम्बन्ध्याहारोपध्यादिकं 'सङ्ग्रड्या' कलहकरणेन 'असङ्ग्रड्या' कलहाभावेन, कोऽपिहितत्सम्बन्धिनिबलादाच्छिद्यमाने कलहंकरोति, कोऽपि स्वामिभयादिना न किमपि वक्ति, तत उक्तं सङ्खड्याऽसङ्घड्या वेति, बलादाच्छिद्य यतिभ्यो ददाति तद्यतीनां न कल्पते । यतस्तद्गृह्णति यताविमे दोषाः ।। तानेवाहमू. (४०२) अचियत्तमंतरायं तेनाहड एग ने गवोच्छेओ । निच्छुभणाइदोसा तस्स अलंभे य जं पावे ॥ वृ. येषां सत्कमाच्छिद्य बलात् स्वामिना दीयते तेषाम् 'अचियत्तम्' अप्रीतिरुपजायते, तथा तेषाम् 'अन्तरायं' दीयमानवस्तुपरिभोगहानिः कृता भवति, तथेत्थं साधूनामाददानानां स्तेनाहृतं भवति- अदत्तादानदोषो भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात्, तथा येषां सम्बन्धि स्वामिना बलादाच्छिद्य दीयते ते कदाचित्प्रद्विष्टाः सन्तोऽन्यदाऽपि तस्यैकस्य साधोर्भक्त पानव्यवच्छेदं कुर्वन्ति, यथाऽनेन सम्प्रति बलादस्माकं भक्तादि गृहीतं ततः कालान्तरेऽप्यस्मै न किमपि दातव्यमस्माभिरिति, अथवा सामान्यतः प्रद्वेषमुपयान्ति यथाऽनेन संयतेन बलादस्माकं भक्तादि गृह्यते तस्मात्कालान्तरेण न कस्यायपि संयताय दातव्यमित्यनेकसाधूनां भक्तादिव्यवच्छेदः, तथा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तः तस्मान्निष्काशयन्ति, आदिशब्दात्खरपरुषाणि भाषन्ते इति परिगृह्यते । तथा तस्य उपाश्रयस्यालाभे यत् किमपि कष्टं प्राप्नुवन्ति तदप्याच्छेद्यादाननिमित्तमिति दोषः । सम्प्रति स्तेनाच्छेद्यं भावयति मू. (४०३) तेनो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्पणुन्नायं ॥ वृ . इहस्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, संयता अपि क्वापि दरिद्रसार्थेन सह व्रजन्ति, तत For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436