________________
मूलं- ३९९
३४९
वृ. प्रभुणा बलादाच्छिद्यमाने दुग्धे कोऽपि गोपो रुष्टः प्रभोः सम्मुखमेवमपि ब्रुवाणः सम्भाव्यते, यथा किमिति मदीयं दुग्धं बलादागृह्णासि ?, न खलु 'अनिर्वृष्टम् ' अनुपार्जितमिह किमपि लभ्यते, ततो मया स्वशरीरायासबलेनेदं दुग्धमुपार्जितम्, अतः कथमत्र प्रभवसि ?, न हि दास्यप्यास्तामुत्तवेश्यादिकमित्यपिशब्दार्थः, 'भक्तास्ते' भक्त पानमृते, भरणपोषणमृते इत्यर्थः, 'भुज्यते' भोक्तुं लभ्यते, ततो मदीयं भोजनमिदम्, अतो न तेऽत्र प्रभुत्वावकाशः, एवं चोक्ते सति कदाचिद्द्रयोरपि प्रभुगोपालकयोः परस्परमेकतरस्य वाद्वितीयस्योपरि प्रद्वेषो वर्द्धते, प्रद्वेषेचवर्द्धमाने यत् करिष्यतिधनहरणमारणादिकंतत्स्वमेवाऽऽच्छेद्यादाने दोषत्वेनविज्ञेयं । तथायच्चान्तरायं गोपालकस्यतत्कुटुम्बस्यचतदपिदोषत्वेन विज्ञेयमिति । तदेवं 'गोवालप ' इति व्याख्यातम् । एतदनुसारेण च भृतकादावपि यथायोगमप्रीत्यादिकं सम्भावनीयमिति । सम्प्रति स्वामिविषयमाच्छेद्यं विभावयिषुराहमू. (४००)
सामी चारभडा वा संजय दट्टूण तेसि अट्टाए । कलुणाणं अच्छेज्जं साहूण न कप्पए घेत्तुं ॥
वृ. इहस्वगृहमात्रनायकः प्रभुः ग्रामादिनायकः स्वामी चारभटावा- स्वामिभटावा, तेऽपि स्वामिग्रहणेन गृह्यन्ते । संयतान् दृष्ट्वा तेषां संयतानामर्थाय 'करुणानां कृपास्थानानां दरिद्रकौटुम्बिकादीनां सम्बन्ध्याऽऽच्छिद्य तद्ददाति तत्साधूनां न कल्पते एतदेव व्यक्तं भावयति
मू. (४०१ )
आहारोवहिमाई जइअट्टाए उ कोइ अच्छिंदे ।
संखडि असंखडीए तं गिण्हंते इमे दोसा ॥
वृ. यदिकोऽपि स्वामी भटोवायतीनामर्थायकेषाञ्चित्सम्बन्ध्याहारोपध्यादिकं 'सङ्ग्रड्या' कलहकरणेन 'असङ्ग्रड्या' कलहाभावेन, कोऽपिहितत्सम्बन्धिनिबलादाच्छिद्यमाने कलहंकरोति, कोऽपि स्वामिभयादिना न किमपि वक्ति, तत उक्तं सङ्खड्याऽसङ्घड्या वेति, बलादाच्छिद्य यतिभ्यो ददाति तद्यतीनां न कल्पते । यतस्तद्गृह्णति यताविमे दोषाः ।। तानेवाहमू. (४०२)
अचियत्तमंतरायं तेनाहड एग ने गवोच्छेओ ।
निच्छुभणाइदोसा तस्स अलंभे य जं पावे ॥
वृ. येषां सत्कमाच्छिद्य बलात् स्वामिना दीयते तेषाम् 'अचियत्तम्' अप्रीतिरुपजायते, तथा तेषाम् 'अन्तरायं' दीयमानवस्तुपरिभोगहानिः कृता भवति, तथेत्थं साधूनामाददानानां स्तेनाहृतं भवति- अदत्तादानदोषो भवति, दीयमानवस्तुनायकेनाननुज्ञातत्वात्, तथा येषां सम्बन्धि स्वामिना बलादाच्छिद्य दीयते ते कदाचित्प्रद्विष्टाः सन्तोऽन्यदाऽपि तस्यैकस्य साधोर्भक्त पानव्यवच्छेदं कुर्वन्ति, यथाऽनेन सम्प्रति बलादस्माकं भक्तादि गृहीतं ततः कालान्तरेऽप्यस्मै न किमपि दातव्यमस्माभिरिति, अथवा सामान्यतः प्रद्वेषमुपयान्ति यथाऽनेन संयतेन बलादस्माकं भक्तादि गृह्यते तस्मात्कालान्तरेण न कस्यायपि संयताय दातव्यमित्यनेकसाधूनां भक्तादिव्यवच्छेदः, तथा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तः तस्मान्निष्काशयन्ति, आदिशब्दात्खरपरुषाणि भाषन्ते इति परिगृह्यते । तथा तस्य उपाश्रयस्यालाभे यत् किमपि कष्टं प्राप्नुवन्ति तदप्याच्छेद्यादाननिमित्तमिति दोषः । सम्प्रति स्तेनाच्छेद्यं भावयति
मू. (४०३)
तेनो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्पणुन्नायं ॥
वृ . इहस्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, संयता अपि क्वापि दरिद्रसार्थेन सह व्रजन्ति, तत
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International