SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ पिण्डनियुक्तिः-मूलसूत्रं अतः श्रमणानां तद्ग्रहीतुं न कल्पते। तत्र प्रथमतः तत्र प्रथमतः प्रभुविषयं भावयतिमू. (३९६) गोवालए य भयएऽखरए पुत्ते य घूय सुण्हाए। अचियत्त संखडाई केइपओसं जहा गोवो॥ वृ.प्रभुकर्त्तकमाच्छेद्यं गोपालके' गोपालविषयं,तथा 'मृतकः' कर्मकरस्तद्विषयम, अक्षरको-द्रव्यक्षरकामिधानो दान इत्यर्थः, तद्विषय, पुत्रविषयं दुहितृविषयं स्नुषाविषयम, उपलक्षणमेतत्, भार्यादिविषयं च।अत्रैवदोषमाह- 'अचियत्त' इत्यादि, अचयत्तम्' अप्रीतिः सङ्घर्ड कलंइ:,आदिशब्दादात्मघातादिपरिग्रहः केचित्पुनः प्रदेषमपि साघौ गच्छन्ति, यथा गोपः' गोपालकः । एनमेव दृष्टान्तं गाथाद्वयेन भावयति. मू. (३९७) गोवपओ अच्छेत्तुं दिन्नं तु जइस्सभइदिने पहणा। __पयभाणूणं दटुंखिंसइभोई रुवे चेडा॥ मू. (३९८) पडियरणपओसेणं भावं नाउंजइस्स आलावो। तन्निब्बंधा गहियं हंदि स मुक्कोसिमा बीयं॥ वृ.वसन्तपुरंनामनगरं,तत्रजिनदासोनामश्रावकः,तस्याभार्यारुक्मिणी, जिनदासस्यगृहेवत्सराजो नाम गोपालः, स चाष्टमे अष्टमे दिने सर्वासामपि गोमहिषीणां दुग्धमादत्ते, तथैव तस्य प्रथमतो घृतत्वात्, अन्यदा चसाधुसङ्घाटको भिक्षायै तत्रागमत, इतश्चतस्मिन् दिने गोपालस्यसर्वदग्धादानवारकः, ततस्तेन सर्वा अपि गोमहिष्यो दुग्धा महती पारिर्दुग्धस्यापूर्णा, जिनदासथ जिनवचनभावितान्तःकरणतया साधुसङ्घाटकं परमपात्रभूतमायातमवलोक्य भक्ति तो यथेच्छ भक्त पानादिकं तस्मै दत्तवान्, ततो 'दुग्धान्तानिभोजनानी'तिपरिभाव्यभक्ति तरलितमनस्कतयागोपालस्यदुग्धंबलादाच्छियकतिपयंददौ, ततःसगोपालोमनसिसाधोरुपरिमनाक्प्रद्वेषंययौ,परंप्रभुभयान्नकिमपिवक्तुमीशितः, ततस्तत्पपोभाजनं कतिपयन्यून स्वगृहे नीतवान्, तच्च तथाभूतं न्यूनमवलोक्य भार्या सरोषं पृष्टवती, किमिति न्यूनमिदं पयोभाजनम् ?, इति, ततो गोपेन यथावस्थिते कथिते साऽपि साधुमाक्रोष्टुं प्रावर्त्तत, चेटरूपाणि च दुग्धं स्तोकमवलोक्य किमस्माकं भविष्यतीति रोदितुंप्रवृत्तानि, तत इत्थं सकलमपि स्वकुटुम्बमाकुलमवेत्यस गोपःसञ्जातसाधुविषयमहाकोपःसाधुव्यापादयितुंचलितवान्, दृष्टश्चभिक्षार्थपरिभ्रमन क्वापिप्रदेशेसाधुः, ततःप्रधावितो लकुटमुत्पाट्य साधोः पृष्ठतः, साधुनापिकथमपिपश्चादवलोकनेतंगोपंतथाभूतंकोपारुणनयनमालोक्य परिभावयामासे. नूनमेतस्य दुग्धं बलादाच्छिद्य जिनदासेन मह्यं ददे तेन मम मारणार्थमिव कुपित एव समागच्छन्नुपलक्ष्यते, ततः साधुर्विशेषतः प्रसन्नवदनो भूत्वा तस्वैव सम्मुखं प्रत्यागन्तुं प्रावर्त्तत, बभाणचयथा-भोभोःक्षीरगृहनियुक्तक!तवप्रभुनिर्बन्धेनमयातदानींदग्धमात्तंसम्प्रतितुगुहाणत्वमात्मीयं दुग्धमिति, एवं चोक्ते सत्युपशान्तकोपःसा प्रतिस्वस्वभावंप्रकटितवानं. यथाभोः साधो! सुविहित! तव मारणार्थमहमिदानीमागतः, परं सम्प्रति त्वद्रचनामृतपरिसेकत उपशशाम में सर्वः कोपानलः, ततो गृहाण त्वमेवेदं दुग्धं, मुक्तधाक्षतप्राणो मया, परं भूयोऽप्येवमाच्येद्यन ग्रहीतव्यमिति निवृत्तो गोपः, स्वस्थानंच गतः साधुरिति।सूत्रं सुगम, नवरं ‘पयभाणूणं'त्ति विभक्ति लोपात्पयोभाजनमूनं दृष्ट्रा भोई' इति भोग्याभार्या इत्यर्थः गंव'त्तिकदन्ति, 'हंदी ति आमन्त्रणे.तनिर्वन्धात त्वदीयजिनदासाख्यप्रभुनिबन्धादगृहीतं, ततः स प्राह-मुक्तोऽसि सम्प्रति मा द्वितीयं वारमेवं गृहीथाः।। मू. (३९९) नानिन्विट्ठ लब्भइ दासीवि न भुज्जए रिते भत्ता। दोन्नेगयरपओसंजं काही अंतरायंच॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy