Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 332
________________ मूलं - ३.१२ है मू. (३१२) [भा. २६] मू. (३१३) [भा. २७] कन्तामि ताव पलूं तो ते देहामि पुत्त ! मा रोव । तं जड़ सुणेइ साहू न गच्छए तत्थ आरंभो ॥ अन्न उट्टिया वा तुब्भवि देमित्ति किंपि परिहरति । किह दानि न उट्टिहिसी ? साहुपभावेण लब्भामो ॥ वृ. काचित्कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति - कृणन्मि तावदिदं 'पेलूं' रूतपूणिकां, कृणन्मीति 'कृदुपवेष्टने' इत्यस्य रौधादिकस्य प्रयोगः, ततः पश्चात् 'ते' तुभ्यं दास्यामीति मा रोदी:, अत्रान्तरे च साधुरागतो यदि शृणोति तर्हि तत्र गृहे न गच्छति, न तत्र भिक्षां गृह्णातीत्यर्थः, माभूत्साधुनिमित्त आरम्भ बालकभोजनदानतदनन्तरहस्तधावनादिरूपः, सा हि साध्वर्थमुत्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधावनादिनाऽप्कायादिकंचविनाशयति, इहरूतपूणिकाकर्त्तनसमाप्त्यनन्तरंदातव्यतया बालकाय "प्रतिज्ञाते भोजनेसाधुनिमित्तमर्वागुत्थानेनयदवगिव बालस्य भोजनदानं तदवसर्पणम, अथवा गृहस्थाकर्त्तनं कुर्वतीभोजनंयाचमानंपुत्र प्रतिवदति- 'अन्यार्थम' अन्येन प्रयोजनेनोत्थितासती' तवापि ' तुभ्यमपिकिमपि खादिमादिदास्यामि, अत्रान्तरे च साधुरागत एवं श्रुतं परिहरति, अथवा तथाभूतगृहस्थावचनानाकर्णनेऽपि साधौ समागते बालको जननीं वदति - कथमिदानी नोत्थास्यसि ?, समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्रभावेण वयमपि लप्स्यामहे, तत एवं बालकवचनं श्रुत्वा तथा दीयमानं परिहरति, माभूदवसर्पणरूपसूक्ष्मप्राभृतिकादोषः । सम्प्रत्युत्सर्पणरूपां सूक्ष्मप्राभृतिकां गाथाद्वयेनाहमा ताव झंख पुत्तय ! परिवाडीए इहेहि सो साहू । एयस्स उट्टिया ते दाहं सोउं विवज्नेइ ॥ मू. (३१४) मू. (३१५) ( अहवा) अंगुलियाए घेत्तुं कडुड़ कप्पट्टओ घरं जत्तो । किंति कहिए न गच्छइ पाहुडिया एस सुहुमा उ ॥ वृ. इह काचिद्गृहस्था भोजनं याचमानं पुत्रं प्रतिपादयति-हे पुत्रक! मा तावज्झष वारं वारं जल्प, इह परिपाट्या साधुरागमिष्यति ततस्तस्यार्थमुत्थिता सती 'ते' तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवर्जयति, मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषः, अत्रार्वाग् विषक्षितस्य भोजनदासस्य साधुभिक्षादानेन समं परतःकरणमुत्सर्पणम्, अथवाप्राक्त ने जनन्योक्ते बालकेन श्रुते सतिस ' कप्पट्टओ' बालकस्तं साधुमङ्गुल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति, ततः साधुस्तं बालकं पृच्छति- यथा किं मामाकर्षसि ?, ततः स यथावस्थितं कथयति, बालकत्वेन ऋजुत्वात, ततः कथिते तत्र न गच्छति. मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषसम्पर्कः, एषा सर्वाऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका । मू. (३१६) पुत्तस्स विवाहदिन ओसरणे अइच्छिएं मुणिय सड्डी । आसक्कंतोसरणं संखडिपाहेणगदवट्टा ॥ वृ. पुत्रस्य, उपलक्षणमेतत् पुत्रिकादेथ, विवाहदिनं ज्योतिर्विदा 'अवसरणं' साधुसमुदाये यथाविहारक्रममतिक्रान्तेऽन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्रद्धी विवाहमवष्वष्कते, अर्वाग्दिनं दृष्ट्वा विवाह करोति, किमर्थम् ?, इत्याह- समवसरणे षष्टीसप्तम्योरर्थं प्रत्यभेदात्समवसरणस्य-साधुसमुदायस्य विवाहरूपायां सङ्ख्यां प्रहेणकं- मोदकादिद्रवं- तण्डुलघावनादि तदर्थं तद्दानार्थं, भावना च प्रथमगाथायामेव कृता ॥ उत्सर्पणरूपां बादरप्राभृतिकामाह मू. (३१७/१) अप्पत्तंमि य ठवियं ओसरणे होहिडत्ति उस्सकणं । For Private & Personal Use Only 399 Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436