________________
मूलं - ३.१२
है
मू. (३१२)
[भा. २६]
मू. (३१३)
[भा. २७]
कन्तामि ताव पलूं तो ते देहामि पुत्त ! मा रोव । तं जड़ सुणेइ साहू न गच्छए तत्थ आरंभो ॥ अन्न उट्टिया वा तुब्भवि देमित्ति किंपि परिहरति । किह दानि न उट्टिहिसी ? साहुपभावेण लब्भामो ॥ वृ. काचित्कर्त्तनं कुर्वती भोजनं याचमानं बालकं प्रति वदति - कृणन्मि तावदिदं 'पेलूं' रूतपूणिकां, कृणन्मीति 'कृदुपवेष्टने' इत्यस्य रौधादिकस्य प्रयोगः, ततः पश्चात् 'ते' तुभ्यं दास्यामीति मा रोदी:, अत्रान्तरे च साधुरागतो यदि शृणोति तर्हि तत्र गृहे न गच्छति, न तत्र भिक्षां गृह्णातीत्यर्थः, माभूत्साधुनिमित्त आरम्भ बालकभोजनदानतदनन्तरहस्तधावनादिरूपः, सा हि साध्वर्थमुत्थिता सती बालकस्यापि भोजनं ददाति, ततो हस्तधावनादिनाऽप्कायादिकंचविनाशयति, इहरूतपूणिकाकर्त्तनसमाप्त्यनन्तरंदातव्यतया बालकाय "प्रतिज्ञाते भोजनेसाधुनिमित्तमर्वागुत्थानेनयदवगिव बालस्य भोजनदानं तदवसर्पणम, अथवा गृहस्थाकर्त्तनं कुर्वतीभोजनंयाचमानंपुत्र प्रतिवदति- 'अन्यार्थम' अन्येन प्रयोजनेनोत्थितासती' तवापि ' तुभ्यमपिकिमपि खादिमादिदास्यामि, अत्रान्तरे च साधुरागत एवं श्रुतं परिहरति, अथवा तथाभूतगृहस्थावचनानाकर्णनेऽपि साधौ समागते बालको जननीं वदति - कथमिदानी नोत्थास्यसि ?, समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यं त्वया, तथा च सति साधुप्रभावेण वयमपि लप्स्यामहे, तत एवं बालकवचनं श्रुत्वा तथा दीयमानं परिहरति, माभूदवसर्पणरूपसूक्ष्मप्राभृतिकादोषः । सम्प्रत्युत्सर्पणरूपां सूक्ष्मप्राभृतिकां गाथाद्वयेनाहमा ताव झंख पुत्तय ! परिवाडीए इहेहि सो साहू । एयस्स उट्टिया ते दाहं सोउं विवज्नेइ ॥
मू. (३१४)
मू. (३१५)
( अहवा) अंगुलियाए घेत्तुं कडुड़ कप्पट्टओ घरं जत्तो ।
किंति कहिए न गच्छइ पाहुडिया एस सुहुमा उ ॥
वृ. इह काचिद्गृहस्था भोजनं याचमानं पुत्रं प्रतिपादयति-हे पुत्रक! मा तावज्झष वारं वारं जल्प, इह परिपाट्या साधुरागमिष्यति ततस्तस्यार्थमुत्थिता सती 'ते' तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवर्जयति, मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषः, अत्रार्वाग् विषक्षितस्य भोजनदासस्य साधुभिक्षादानेन समं परतःकरणमुत्सर्पणम्, अथवाप्राक्त ने जनन्योक्ते बालकेन श्रुते सतिस ' कप्पट्टओ' बालकस्तं साधुमङ्गुल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति, ततः साधुस्तं बालकं पृच्छति- यथा किं मामाकर्षसि ?, ततः स यथावस्थितं कथयति, बालकत्वेन ऋजुत्वात, ततः कथिते तत्र न गच्छति. मा भूदुत्सर्पणरूपसूक्ष्मप्राभृतिकादोषसम्पर्कः, एषा सर्वाऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका ।
मू. (३१६)
पुत्तस्स विवाहदिन ओसरणे अइच्छिएं मुणिय सड्डी । आसक्कंतोसरणं संखडिपाहेणगदवट्टा ॥
वृ. पुत्रस्य, उपलक्षणमेतत् पुत्रिकादेथ, विवाहदिनं ज्योतिर्विदा 'अवसरणं' साधुसमुदाये यथाविहारक्रममतिक्रान्तेऽन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्रद्धी विवाहमवष्वष्कते, अर्वाग्दिनं दृष्ट्वा विवाह करोति, किमर्थम् ?, इत्याह- समवसरणे षष्टीसप्तम्योरर्थं प्रत्यभेदात्समवसरणस्य-साधुसमुदायस्य विवाहरूपायां सङ्ख्यां प्रहेणकं- मोदकादिद्रवं- तण्डुलघावनादि तदर्थं तद्दानार्थं, भावना च प्रथमगाथायामेव कृता ॥ उत्सर्पणरूपां बादरप्राभृतिकामाह
मू. (३१७/१)
अप्पत्तंमि य ठवियं ओसरणे होहिडत्ति उस्सकणं ।
For Private & Personal Use Only
399
Jain Education International
www.jainelibrary.org