________________
पिण्डनियुक्तिः मूलसूत्रं ' वृ. स्थापितं विवाहदिनं किलाप्राप्ते-यथाविहारक्रममनागते अवसरणे' साधुसमुदायरूपे भविष्यति, ततोनकिमपिमदीयंविवाहसत्कंसाधूनामुपकरिष्यतीतिकृत्वाविवाहस्योत्सर्पणंकरोति,साधुसमागमकाल एव करोतीत्यर्थः । उक्ता बादरा प्राभृतिका। सम्प्रति द्विविधाया अप्यवसप्र्पणोत्सर्पणरूपायाः कर्तारं
मू. (३१७/२) तंपागडमियरं वा करेइ उज्जू अनुज्जू वा।
वृ. ताम्' अवष्वष्कणोत्वष्कणरूपां द्विविधामपि ऋजुः प्रकटं करोति, सकलजननिवेदनेन करोति, अनजुरितरत-प्रच्छन्नं, यथा न कोऽपि जानातीति भावः, तत्र यदि प्रकटं करोति तर्हि तां जनपरम्परात एव ज्ञात्वा परिहरन्ति, अथाप्रकटं तर्हि निपुणंशोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपिन परिज्ञानं भवति तदा न कश्चिद्दोषः, परिणामस्य शुद्धत्त्वात् ॥ अथ किमर्थं बादरमवष्वष्कणादिकं करोति?, तदाह__मू. (३१८) मंगलहेउं पुन्नट्टया व ओसक्कियं दुहा पगयं।
. उस्सक्कियंपि किंति य पढे सिटे विवज्जति॥ वृ. प्रकृतं' विवाहादिकं द्विधा' द्वाभ्यां प्रकाराभ्यामवष्वष्कितं भवति, तद्यथा-'मङ्गलहेतोः' वीवाहे गृहस्थसाधुचरणैः स्पर्शनं तेभ्यो दानंचमङ्गलायेतिकृत्वा, यद्वा-पुण्यार्थम्, एवमुत्ष्वष्कितमपि द्विधा, ततो निपुगपृच्छं किमिदम् ? इति पृष्टे गृहस्थेन च यथावस्थिते कथिते तद्वीवाहसत्कं परिहरन्ति, मा भूद्बादर. प्राभृतिकादोषानुषङ्ग इति। ये तुन परिहरन्ति तेषां दोषमाहमू. (३१९) पाहुडिभत्तंभुंजइ नपडिक्कमए अ तस्स ठाणस्स।
एमेव अडइ बोडो लुक्कविलुक्को जह कवोडो॥ वृ. यः प्राभृतिकाभक्तं भुङ्क्ते न च तस्मात् प्राभृतिकापरिभोगरूपात स्थानात्प्रतिक्रामति स बोड:' मुण्ड एवमेव-निप्फलमटति यथा लुश्चितविलुश्चितकपोतः। उक्तं प्राभृतिकाद्वारम, अथ प्रादृष्करणद्वारं. मू. (३२०) लोयविरलुत्तमंगंतवोकिसं जल्लखउरियसरीरं।
जुगमेत्तंतरदिलुि अतुरियचवलं संगिहमित॥ मू. (३२१) दट्टणय अनगारं सड्डी संवेगमागया काइ।
विपुलन्नपाण घेत्तूण निग्गया निग्गओ सोऽवि॥ मू. (३२२) नीयवारंमि वरे न सुज्झई एसणत्तिकाऊणं ।
नीहंमिए अगारी अच्छइ विलिया व गहिएणं॥ मू. (३२३) चरणकरणालसंमि य अन्नंमि य आगए गहिय पुच्छा।
__ इहलोगं परलोगं कहेइ चइडं इमं लोगं॥ मू. (३२४) नीयदुवारंमि घर भिक्खं निच्छंति एसणासमिया ।
जं पुच्छसि मज्झ कहं कप्पइ लिंगावजीवीऽहं ।। मू. (३२५) साहुगुणेसणकहणं आउट्टा तंमि तिप्पइ तहेव।
__ कुक्कुडि चरंति एए वयं तु चिन्नव्वया बीओ॥ वृ.काचित् श्राविका अनगारं' साधुमेकाकिविहारिणंलोचविरलोत्तमाङ्गम.अवोत्तमाङ्गशब्देनात्तमाङ्गस्था केशाउच्यन्ते,ततोऽयमर्थः-लोचेनविरलोत्तमाङ्गेकशंतपःकृशंमलकलुषितशरीरंयुगमात्रान्तरन्यस्तदृष्टिम् अत्वरितमचपलं स्वगृहमागच्छन्तं दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्वा गृहमध्याद्विर्निर्गता, सोऽपिचसाधुनींचद्वारेऽस्मिनगृहेनशुध्यतिममैषणेतिकृत्वाततःस्थानाद्विनिर्जगाम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org