________________
पिण्डनिर्युक्तिः- मूलसूत्रं सर्वाण्यप्यात्मार्थीकृतानि मा गृह्णीयात् साधुः कुटुम्बे भविष्यतीत्येवमात्मसत्ताकीकृतानि साधवो गृह्णन्ति । घृतंत्वात्मार्थीकृतमपितेजःकायाऽऽरम्भादाधाकर्मेतिन कल्पते, घृतं च स्थापितं सत् तावद्घटते यावद्देशोना पूर्वकोटी, तथाहि पूर्वकोट्यायुषा केनापि साधुना वर्षाष्टकप्रमाणेनकस्याश्चित्पूर्वकोट्यायुषोऽगारिण्याः पार्श्वे घृतंययाचे, तयोक्तं - क्षणान्तरे दास्यामि, साधुना चान्यत्रघृतं लब्धं, ततः सा ऋणभीतेव तावद्वृतं घृतवती यावत् साधोरायुः, ततो मृते साधौ तदन्यत्रोषयुक्त मिति नास्ति स्थापना, इह वर्षाष्टकस्याधः पूर्वकोटेरुपरि च चारित्रं न भवति, चारित्रिणं चाधिकृत्य स्थापनादोषः, ततो देशोना पूर्वकोटीत्युक्तम् । एवं गुडादेरप्यविनाशिनो द्रव्यस्य यथायोगंस्थापनाकालपरिमाणं द्रष्टव्यं । 'कुसुणियंपि त्तिकुसुणितमपिकरम्बादिरूपतया कृतमपि यावन्तं कालमविनाशि तावत्कालं तस्य स्थापना द्रष्टव्या, परतस्तु कुथितत्वादुज्झते वे भावः । तदेवं क्षीरादिकं परम्परास्थापितमुक्तं ।
मू. (३०९)
रस कक्क पिंडगुला मच्छंडिय खंडसक्कराणं च । होइ परंपरठवणा अन्नत्थ व जुज्जए जत्थ ॥
वृ . इह केनापि साधुना किमपि प्रयोजनमुद्दिश्य कोऽपीक्षुरसं याचितः, स च प्रतिज्ञातवान् -क्षणान्तरे दास्यामि, साधुनाचान्यत्रेक्षुरसोलैब्धः, पूर्वमस्यर्थितश्चक्रणभीतइवतमिक्षुरसं कक्कबंकरोतियावत् शर्करेति एषांचेक्षुरसकक्कबादीनामुत्तरोत्तरपिण्डगुल्पादिपर्यायापादनपुरस्सरंध्रियमाणानां स्थापनापरम्परास्थापना, एवमन्यत्रापि द्रव्यान्तरे यत्रैवं परम्परया स्थापना घटते तत्र परम्परास्थापना द्रष्टव्या । यावच्च स्थापितस्य नाधाकर्मसम्भवस्तावदात्मार्थीकृतं कल्पते, कृतपाकारम्भं तु न कल्पते ।
मू. (३१० )
भिक्खागाही एत्थ कुणइ बिइओ उ दोसु उवओगं ।
तेन परं उक्खित्ता पाहुडिया होइ ठवणा उ ॥
वृ. भिक्षाग्राही एकत्रोपयोगं करोति, द्वितीयस्तु द्वयगृहयोः, तत्र त्रिषु गृहेषपयोगसम्भवे स्थापनादोषो न भवति, गृहत्रयात्परं साध्वर्थमुत्पाटिता भिक्षा प्राभृतिका स्थापना भवति ।। उक्तं स्थापनाद्वारं । मू. (३११) पाहुडियावि हु दुविहा बायर सुंहुमा य होड़ नायव्वा । ओस्सक्कमणमुस्सक्कण कब्बट्टीए समोसरणे ॥
वृ. द्विविधा प्राभृतिका, तद्यथा - बादरा सूक्ष्मा च, एकैकापि द्विधा, तद्यथा- अवष्वष्कणेनोत्ष्वष्कणेन च. सूते चात्र विभक्ति लोप आर्षत्वात. तत्र 'अवष्वष्कणं' स्वयोगप्रवृत्तनियतकालावधेर्वाक्करणम 'उत्ष्वष्कणं’परतःकरणं.तत्रबादरप्राभृतिकाविषयमाह-'कब्बट्टीएसमोसरणं' इहसमयपरिभाषया कब्बड्डीलध्वी दारिका भण्यते तस्याः सत्कस्य, उपलक्षणमेतत्, पुत्रादेव सत्कस्य वीवाहस्यावष्वष्कणमुत्ष्वष्कणं वा 'समवसरणे' साधुसमुदायविषये, इयमत्र भावना- साधुसमुदायं यथाविहारक्रममायातं दृष्ट्वा कोऽपि श्रावकचिन्तयति, यथा-ज्योतिर्विदापदिष्टे विवाहदिने यदि विवाहः क्रियते ततोऽवर्गिव सुविहितजनां विहारक्रमेण गमिष्यति ततो न किमपि मदीयं विवाहसम्भवं मोदकादिकं तण्डुलधावनादि वोपकरिष्यते, तत एवं चिन्तयित्वाऽर्वाग् विवाहं करोति, यदिवा भूयान् सुविहितजनो विहारक्रमेण गमिष्यति ततो न किमपि मदीयं विवाहसम्भवं मोदकादिकं तण्डुलधावनादि वोपकरिष्यते, तत एवं चिन्तयित्वाऽवग विवाहं करोति, यदिवा भूयान् सुविहितजनो यथाविहारक्रमागच्छन् श्रुयते वीवाहश्च तदागमनादर्वाक् ततो न किमपि तेषां मदीयमुपकरिष्यतीति, तत एवं विचिन्त्य परतो वीवाहं करोति, इदं च विवाहस्वावष्वष्कणमुत्ष्वष्कणं वा कृत्वा यदुपरिस्क्रयते भक्तादि सा बादरा प्राभृतिका । सम्प्रत्यपसर्पणरूपां सूक्ष्मप्राभृतिकां
For Private & Personal Use Only
३२८
Jain Education International
www.jainelibrary.org