________________
मूलं-३०४
३२७ लधुर्घटः, आदिशब्दात्पाकभाजनवर्जचुल्ल्यवचुल्लवर्जशेषसकलभाजनपरिग्रहः, अत्रापि स्वस्थानपरस्थानापेक्षया चतुर्भङ्गी, तद्यथा-स्वस्थान स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने।एनामेवचतुर्भङ्गीदर्शयति-'सट्ठाण' इत्यादि.अत्र सहाणेपिढरेछब्बगेय' इत्यनेनभङ्गद्वयंसूचितं, स्वस्थानस्यपिठरछब्बकाभ्यांप्रत्येकमभिसम्बन्धात,तद्यथा-स्वस्थानेचुल्ल्यादौपिठरेच,तथास्वस्थाने चुल्ल्यादौ छब्बके च परस्थाने, ‘एमेव दूरे यत्ति इह दूरं चुल्ल्यवचुल्लाभ्यामन्यत्प्रदेशान्तरं, तत्रापि पदपेक्षयाऽपि एवमेव भङ्गद्वयं द्रष्टव्यं, यद्यथा-भाजनपे स्वस्थाने पिठरे परस्थानेऽन्यत्र प्रदेशान्तरे, तथा परस्थानेऽन्यत्र प्रदेशान्तरे परस्थाने छब्बगादाविति सर्वसङ्ख्यया चत्वारो भङ्गाः। तदेवं मूलगाथायाः सट्टाणेत्यादिपूर्वार्द्ध व्याख्यातम् । अथ खीराइपरंपरए' इति व्याचिख्यासुराहमू. (३०५) एक्केवं तं विहं अनंतरपरंपरे य नायव्वं ।
अविकारिकयं दव्वंतं चेव अनंतरं होइ। वृ. तत्साधुनिमित्तं स्थापितमकैकं स्वस्थानगतं परस्थानगतं च द्विविधं ज्ञातव्यं, तद्यथा-'अनन्तर' अन्तराभावे, विकाररूपव्यवधानाभावे इत्यर्थः, ‘परम्परके विकारपरम्परायामित्यर्थः, तत्र यत् का स्वयोगेनाविकारिभूयोऽसम्भविविकारं घतगडादि कृतं न हि तस्यभूयोऽपि विकारःसम्भवति तत्स्गधुनिमित्तं स्थापितमनन्तरम्-अनन्तरस्थापितं, उपलक्षणमेतत्,तेनक्षीरादिकमपियस्मिन्दिनेसाधुनिमित्तंस्थापितं यदितस्मिन्नेव दिने ददाति तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमानमनन्तरस्थापितंद्रष्टव्यं, तदेवतु क्षीरं साधुनिमित्तं घृतं सद्दध्यादिरूपतया परिकर्यमाणं परम्परास्थापितं भवति, एवमिक्षुरसादिकमपि तस्मिन्नेव दिनेस्थापितंदीयमानमनन्तरस्थापितं कक्कबादिरूपतयातुपरिकर्म्यमाणंपरम्परास्थापितमिति । मू. (३०६) अच्छुक्खीराईयं विगारि अविगारि घयगुलाईयं।
परियावज्जणदोसा ओदनंदहिमाइयं वावि॥ वृ. इक्षुक्षीरादिकं विकारि तस्य कक्कबादिदध्यादिविकारसम्भवात. घतगुडादिक त्वधिकारि तस्य भूयोऽपिविकारासम्भवात,तथा ओदनदध्यादिकमपि करम्बादिरल्पविकारि,कुतइत्याह-पर्यापादनदोषात्, करम्बादिकहिध्रियमाणंनियमातपर्यापद्यते-कोथमायातीत्यर्थः, ततस्तदपिविकारिद्रव्यातदेवं विकारीतराणि द्रव्याण्यमिहितानि, सम्प्रति क्षीरादिकं परम्परास्थापितं भावयतिमू. (३०७) उभट्ठपरिन्नायं अन्नं लन्द्रं पओयणे घेत्थी।
रिणमीया व अगारी दहित्ति दाहं सुए ठवणा।। मू. (३०८) , नवनीय मंथतिक्कं व जाव अत्तट्ठिया व गिण्हंति।
देसृणा जाव घयं कुसणंपि य जत्तियं कालं ।। वृ. अब्भट्ट'त्ति केनापि साधुना कस्याश्चिदगारिण्याः सकाश क्षीरमभ्यर्थितं. ततस्तया प्रतिज्ञातं. क्षणान्तरे दास्यामि, साधुना चान्यत्रान्यत् क्षीरं लब्धं, ततः पूर्वमभ्यर्थितयाऽगारिण्या दुग्धसम्प्राप्ता सत्यां साधुप्रतिप्रत्यपादि-गृहाणभगवन्निदंदग्धमिति, साधुनाचोक्तं लब्धमन्यत्रमयादग्धं,ततोयदिभूयोऽपि प्रयोजनं भविष्यति तर्हि घा'गृहीष्यामि, एवमुक्ते साऽगारिणी ऋणभीतव स्वयं नोपबुभुजे. किन्त्ववं चिन्तयामास- श्वः कल्ये दधि कृत्वा दास्यामीति, तत एवं चिन्तयित्वा स्थापयति. ततो द्वितीयदिने दधि जातं तदपि साधुना न गृहीतं, ततो नवनीतं तक्रं च जातं, नवनीतमपि घृतं कृतं, इह क्षीरादिकं सकलमपि स्थापनादोषदुष्टत्वात साधूनां न कल्पते. यद्वा क्षीरादिकं यावन्नवनीतं मस्तु तक्रं वा तावदेतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org