Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 330
________________ मूलं-३०४ ३२७ लधुर्घटः, आदिशब्दात्पाकभाजनवर्जचुल्ल्यवचुल्लवर्जशेषसकलभाजनपरिग्रहः, अत्रापि स्वस्थानपरस्थानापेक्षया चतुर्भङ्गी, तद्यथा-स्वस्थान स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने।एनामेवचतुर्भङ्गीदर्शयति-'सट्ठाण' इत्यादि.अत्र सहाणेपिढरेछब्बगेय' इत्यनेनभङ्गद्वयंसूचितं, स्वस्थानस्यपिठरछब्बकाभ्यांप्रत्येकमभिसम्बन्धात,तद्यथा-स्वस्थानेचुल्ल्यादौपिठरेच,तथास्वस्थाने चुल्ल्यादौ छब्बके च परस्थाने, ‘एमेव दूरे यत्ति इह दूरं चुल्ल्यवचुल्लाभ्यामन्यत्प्रदेशान्तरं, तत्रापि पदपेक्षयाऽपि एवमेव भङ्गद्वयं द्रष्टव्यं, यद्यथा-भाजनपे स्वस्थाने पिठरे परस्थानेऽन्यत्र प्रदेशान्तरे, तथा परस्थानेऽन्यत्र प्रदेशान्तरे परस्थाने छब्बगादाविति सर्वसङ्ख्यया चत्वारो भङ्गाः। तदेवं मूलगाथायाः सट्टाणेत्यादिपूर्वार्द्ध व्याख्यातम् । अथ खीराइपरंपरए' इति व्याचिख्यासुराहमू. (३०५) एक्केवं तं विहं अनंतरपरंपरे य नायव्वं । अविकारिकयं दव्वंतं चेव अनंतरं होइ। वृ. तत्साधुनिमित्तं स्थापितमकैकं स्वस्थानगतं परस्थानगतं च द्विविधं ज्ञातव्यं, तद्यथा-'अनन्तर' अन्तराभावे, विकाररूपव्यवधानाभावे इत्यर्थः, ‘परम्परके विकारपरम्परायामित्यर्थः, तत्र यत् का स्वयोगेनाविकारिभूयोऽसम्भविविकारं घतगडादि कृतं न हि तस्यभूयोऽपि विकारःसम्भवति तत्स्गधुनिमित्तं स्थापितमनन्तरम्-अनन्तरस्थापितं, उपलक्षणमेतत्,तेनक्षीरादिकमपियस्मिन्दिनेसाधुनिमित्तंस्थापितं यदितस्मिन्नेव दिने ददाति तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमानमनन्तरस्थापितंद्रष्टव्यं, तदेवतु क्षीरं साधुनिमित्तं घृतं सद्दध्यादिरूपतया परिकर्यमाणं परम्परास्थापितं भवति, एवमिक्षुरसादिकमपि तस्मिन्नेव दिनेस्थापितंदीयमानमनन्तरस्थापितं कक्कबादिरूपतयातुपरिकर्म्यमाणंपरम्परास्थापितमिति । मू. (३०६) अच्छुक्खीराईयं विगारि अविगारि घयगुलाईयं। परियावज्जणदोसा ओदनंदहिमाइयं वावि॥ वृ. इक्षुक्षीरादिकं विकारि तस्य कक्कबादिदध्यादिविकारसम्भवात. घतगुडादिक त्वधिकारि तस्य भूयोऽपिविकारासम्भवात,तथा ओदनदध्यादिकमपि करम्बादिरल्पविकारि,कुतइत्याह-पर्यापादनदोषात्, करम्बादिकहिध्रियमाणंनियमातपर्यापद्यते-कोथमायातीत्यर्थः, ततस्तदपिविकारिद्रव्यातदेवं विकारीतराणि द्रव्याण्यमिहितानि, सम्प्रति क्षीरादिकं परम्परास्थापितं भावयतिमू. (३०७) उभट्ठपरिन्नायं अन्नं लन्द्रं पओयणे घेत्थी। रिणमीया व अगारी दहित्ति दाहं सुए ठवणा।। मू. (३०८) , नवनीय मंथतिक्कं व जाव अत्तट्ठिया व गिण्हंति। देसृणा जाव घयं कुसणंपि य जत्तियं कालं ।। वृ. अब्भट्ट'त्ति केनापि साधुना कस्याश्चिदगारिण्याः सकाश क्षीरमभ्यर्थितं. ततस्तया प्रतिज्ञातं. क्षणान्तरे दास्यामि, साधुना चान्यत्रान्यत् क्षीरं लब्धं, ततः पूर्वमभ्यर्थितयाऽगारिण्या दुग्धसम्प्राप्ता सत्यां साधुप्रतिप्रत्यपादि-गृहाणभगवन्निदंदग्धमिति, साधुनाचोक्तं लब्धमन्यत्रमयादग्धं,ततोयदिभूयोऽपि प्रयोजनं भविष्यति तर्हि घा'गृहीष्यामि, एवमुक्ते साऽगारिणी ऋणभीतव स्वयं नोपबुभुजे. किन्त्ववं चिन्तयामास- श्वः कल्ये दधि कृत्वा दास्यामीति, तत एवं चिन्तयित्वा स्थापयति. ततो द्वितीयदिने दधि जातं तदपि साधुना न गृहीतं, ततो नवनीतं तक्रं च जातं, नवनीतमपि घृतं कृतं, इह क्षीरादिकं सकलमपि स्थापनादोषदुष्टत्वात साधूनां न कल्पते. यद्वा क्षीरादिकं यावन्नवनीतं मस्तु तक्रं वा तावदेतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436