Book Title: Agam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 302
________________ २९९ मूलं- १८३/२ वृ. तस्येतिप्रस्तावात्साधोरर्थाय कृतमित्यत्र बुद्धावादिकर्मविवक्षायां क्त प्रत्ययः, ततोऽयमर्थः कर्तुं प्रारब्धं, तथा तस्य साधोरर्थाय 'निष्ठितं' सर्वथा पयासुकीकृतमिति, अत्र विषये ' चत्वारि' इति चत्वारो भङ्गा भवन्ति, तत्र प्रथम एष एव भङ्गः तस्य कृतं तस्य निष्ठितं, द्वितीयस्तस्य कृतमन्यस्य निष्ठि तृतीयोऽन्यस्य कृतं तस्स निष्ठितं, चतुर्थोऽन्यस्य कृतमन्यस्य निष्ठितं । तत्र प्रथमो व्याख्यातो द्वितीयादीनां तु भङ्गानामयमर्थःपूर्वं तावत्तस्य साधोरर्थाय कर्तुमारब्धं ततो दातुः साधुविषयदानपरिणामाभावतोऽन्यस्य- आत्मनः स्वपुत्रादेर्वाऽर्थाय निष्ठां नीतं, तथा प्रथमतोऽन्यस्य पुत्रादेरात्मनो वाऽर्थाय कर्तुमारब्धं ततः साधुविषयदानपरिणामभावतःसाधोरर्थायनिष्ठांनीतं, तथा प्रथमतएवान्यस्य निमित्तं कर्तुमारब्धमन्यस्यैवच निमित्तं निष्ठां नीतम्, एवमशने पाने खादिमे स्वादिमे चप्रत्येकंचत्वारश्चत्वारो भङ्गाभवन्ति, तत्र 'सद्धमसुद्धेय'त्तिआर्षत्वात् शुद्धावशुद्धौ चेति द्रष्टव्यं तत्र शुद्धौ - साधोरासेवनायोग्यौ तौ च द्वितीयचतुर्थभङ्गौ, तथाह-क्रियाया निष्ठा प्रधाना, ततो यद्यपि प्रथमतः साधुनिमित्तं क्रिया प्रारब्धा तथापि निष्ठामन्यनिमित्तं नीतेति द्वितीयो भङ्गः साधोः कल्पते, चतुर्थस्तुभङ्गःशुद्धएव, नतत्रविवादः, अशुद्धौ - अकल्पनीयौ तौ चप्रथमतृतीयौ, तत्रप्रथमएकान्तेनाशुद्ध एव साध्वर्थं प्रारब्धत्वान्निष्टितत्वाच्च, तृतीये तु भङ्गे यदौयपि पूर्वं न साधुनिमित्तं पाकादिक्रियाऽऽरम्भस्तथापि सा साधुनिमित्तं निष्टां नेता, निष्ठा च प्रधानेति न कल्पते । तदेवमाधाकर्म्मस्वरूपमुक्तं, साम्प्रतमशनादिरूपस्याधाकर्म्मणः सम्भवं प्रतिपिपादयिषुः कथानकं रूपकषट्केनाहकोवरालगगामे वसही रमणिज्न भिक्खसज्झाए । खेत्तपडिलेहसंजय सावयपुच्छुज्जुए कहणा ।। 1 मू. (९८४) गणस्स खेत्तं वरि गुरूणं तु नत्थि पाउग्गं । सालित्ति कए रुंपण परिभायण निययगेहेसु ॥ वोलिंता ते व अन्ने वा, अडता तत्थ गोयरं । सुति एसणाजुत्ता, बालादिजनसंकहा ॥ एए तेजेसिमो हो, सालिकूरो घरे घरे । दिन वा से सयं देमि, देहि वा बिंइत वा इमं ॥ थक्के थक्कावडि अभत्तए सालिभत्तयं जायं । मज्झयपइस्समरणं, दियरस्सयसेमयाभज्जा ॥ चाउलोदगंपि से देहि, सालीआयामकंजियं । किमेयंति कयं नाउं, वज्र्ज्जतऽन्नं वयंति वा ॥ मू. (१८५) मू. (१८६) मू. (१८७ ) मू. (१८८ ) मू. (१८९) वृ. हसलो नाम ग्रामः, तत्र जिनदत्तनामा श्रावक तस्य भार्याजिनमति, तत्र च ग्राम कोद्रवा रालंकाश्र प्राचुर्येणात्पद्यन्त इति तेषामेव कूरं गृही २ भिक्षार्थमटन्तः साधवो लभन्ते, वसतिरपिस्त्रीपशुपण्डकविवर्जिता समभूतलादिगुणैरतिरमणीया कल्पनीया च प्राप्यते, स्वाध्यायोऽपि तत्र वसतामविघ्नमभिवर्द्धत, केवलं शाल्योदनो नप्राप्यते इति न केचनापि सूरयो भरेण तत्रावतिष्ठन्ते । अन्यदा च सङ्कुलग्रामप्रत्यासन्ने भद्रिलाभिधाने ग्राम केचित्सूरयः समाजग्मुः, तैश्वसङ्कुलग्राम क्षेत्रप्रत्युपेक्षणाय साधवः प्रेष्यन्ते, साधवोऽपि तत्रागत्य यथागमं जिनदत्तस्यपार्श्वे वसतिमयाचिषत, जिनदत्तेनापिच साधुदर्शनसमुच्छलितप्रमोदभरसमुद्भिन्नरोमाञ्चकञ्चुकितगात्रेणतेभ्योवसतिः कल्पनीया उपदेशि, साधवश्चतत्रस्थिताः, यथागमंभिक्षाप्रवेशनेनबहिर्भूमौ स्थण्डिलनिरीक्षणेन च सकलमपि ग्रामं प्रत्युपेक्षितवन्तः, जिनदत्तोऽपि च श्रावको वसतावागत्य यथाविधि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436