Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 249
________________ २३२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ३६५) से किं तं विभागनिप्पण्णे ? विभागनिप्पण्णे - समया-ऽऽवलिय-मुहुत्ता दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ॥१०३॥ (सू० ३६६) से किं तं समए ? समयस्स णं परूवणं करिस्सामि-से जहाणामए तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पायपास-पिटुंतरोरुपरिणते तलजमलजुयल-परिघणिभबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकाये लंघण-पवण-जइणवायामसमत्थे उरस्सबलसमण्णागए छए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जेणं कालेणं तेणं गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: प्रवर्द्धमानवयाः। आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्ते:, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवान:, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् । अल्पशब्दोऽभाववचन:, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः। तलयमलयुगलपरिघणिभबाहुः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल-पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण-मुष्टिकसमाहतनिचितगात्रकाय:, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव । औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः। व्यायामवत्तां दर्शयति- लङ्घन-प्लवनजवनव्यायामसमर्थः, जवनशब्दः शीघ्रवचन:। छेक: प्रयोगज्ञ: । दक्ष: शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी । मेधावी सकृच्छ्रुतदृष्टकर्मज्ञः । निपुण उपायारम्भकः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वितः । एवंविधो ह्यल्पेनैव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372